SearchBrowseAboutContactDonate
Page Preview
Page 789
Loading...
Download File
Download File
Page Text
________________ 1486 नैषधमहाकाव्यम् / सभ्य नहीं है; जो पुरुष 'सोना कैसा है !' यह प्रश्न करनेपर 'तुम्हारा शरीर (सोना) है' ऐसा उत्तर नहीं देता है, वह सदा चतुरोंकी समामें पशिसे बाहर बैठने योग्य अर्थात् अचतुर है और जो पुरुष 'अमृत कैसा होता है ?' यह प्रश्न करनेपर 'तुम्हारी वाणी (ही अमृत) है' ऐसा उत्तर नहीं देता है, उसको निन्दा करने (या-विपरीत भाषण करने) के लिए उन्मुख कामबाण स्पर्श करना भी नहीं चाहते अर्थात् 'वह अत्यन्त नीरस है। [ तुम्हारी वाणी अमृतरूप ही है यहां अधरादिका वर्णन तो गौण है ] // 144 / / मध्ये बद्धाणिमा यत् सगरिममहिमश्रोणिवक्षोजयुग्मा जाग्रच्चेतोवशित्वा स्मितधृतलघिमा मां प्रतीशित्वमेषि | सूक्तौ प्राकाम्यरम्या दिशि विदिशि यशोलब्धकामावसाया भूतीरष्टावपीशस्तददित मुदितः स्वस्य शिल्पाय तुभ्यम् // 145 / / मध्य इति / हे प्रिये ! त्वं यत् यस्मात् हेतोः, मध्ये उदरप्रदेशे, बद्धः शृतः, अणिमा सौचम्यातिशयो यया सा तादृशी कृशोदरी / तथा गरिममहिमभ्यां गुरुत्व. महत्वाभ्यां सह वर्तमानम् , श्रोणिः नितम्बः, वक्षोजयुग्मं स्तनयुगलच यस्याः सा तादृशी गुरुस्थूलनितम्बा पीनोन्नतकुचा च / तथा जाग्रत् स्फुरत् , उद्बुध्यमान. मित्यर्थः / चेतसि मनसि, वशः इन्द्रियाणां स्वाधीनत्वम् , तदस्यास्तीति वशी तद्भावो वशित्वं जितेन्द्रियता यस्याः सा तादृशी पतिव्रता। तथा स्मिते ईषद्धा. स्येऽपि, घृतः आश्रितः, लघिमा अल्पत्वं यया सा तादृशी अल्पहासेत्यर्थः। अणिमादौ गुणवचनस्वादिमनिच / तथा मां नलम् , प्रति उद्दिश्य, ईशनमीशः ऐश्वर्यम् , तदस्यास्तीति ऐशी तद्भावः ईशित्वं स्वामिताम् , एषि गच्छसि, मम प्राणानामीश्वरी भवसीत्यर्थः / तथा सूक्तौ वचनचातुर्यविषये, प्राकाम्येण प्रकारबाहुल्येन, रम्या रम. णीया, वक्रोक्त्यादिनानाप्रकारां वाणीं वक्तुं त्वमेव जानासि नान्या इति भावः। . तथा दिशि प्राच्यादौ, विदिशि आग्नेयादौ च, यशसः सौन्दर्यादिविषयककोत्तः, यशसा वा कृत्वा, लब्धः प्राप्तः, काम यथेष्टं यथा तथा, अवसायः अप्रतिहतप्रसरा गतिर्यया सा ताहशी त्रैलोक्यप्रसरकीर्तिः, असीति शेषः / तत् तस्मात् कारणात् , मुदितो हृष्टः, त्वां निर्माय सौन्दर्यादिना परितुष्टः इत्यर्थः। ईशः, ईश्वरः, अष्टावपि अष्टसङ्खयका अपि, भूतीः ऐश्वर्याणि, स्वकीयाः अणिमादीः महासिद्धीरित्यर्थः / स्वस्य भास्मनः, शिल्पाय कारवे, तुभ्यं भवत्यै, स्वदपाय निजनिर्माणाय इत्यर्थः / अदित प्रायच्छत् / यथा सन्तुष्टो हि पित्रादिः अपत्यादिभ्यः स्वकीयमैश्वर्यादिकं प्रददाति, तथेश्वरेण सन्तुष्टेन स्वकीयम् 'अणिमा महिमा गरिमा लघिमा वशित्वमी. शित्वं प्राकाम्यं कामावसायिता च' इत्येवमष्टविधमैश्वर्यं तुभ्यं दत्तम् , अन्यथा एतत्. सर्व स्वयि कथं स्यादिति भावः। अत्र वाणीवर्णनम् एव प्रस्तुतं मध्यादिवर्णनं प्रासनिकम् // 145 //
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy