________________ 1478 नैषधमहाकाव्यम् / स्त्रीपुंसौ प्रविभज्य जेतुमखिलावालोचितौचित्ययोनम्रां वेद्मि रतिप्रसूनशरयोश्चापद्वयीं त्वद्ध्वौ / त्वन्नासाच्छलनिगुतां द्विनलिकी नालीकमुक्तयेषिणो. स्त्वन्निःश्वासलते मधुश्वसनजं वायव्यमस्त्रं तयोः / / 136 / / स्त्रीपुंसाविति / हे प्रिये ! स्वध्रवौ तव भ्र युगलम्, कुटिलाविति शेषः / अखिलौ समस्ती, स्त्रीपुंसौ नारीनरौ, प्रविभज्य विभागीकृत्य, रतेरंशे स्त्रियः कामांशे च पुमांस इत्येवं विभागं कृत्वेत्यर्थः / जेतुं वशीकतम् , आलोचितं मनसा विवेचितम् , औ. चित्यं युक्तियुक्तता याभ्यां तादृशयोः, रतिप्रसूनशरयोः कामप्रियाकामयोः नम्रां लक्ष्यं लक्षीकृत्य आकर्षणेन वक्रीभूतामित्यर्थः / चापद्वयीं कामुकयुगलम् , उभयोरेव वक्रत्वेन साम्यादिति भावः, वेनि जानामि / नालीकमुक्तयेषिणोः नालीकानां ('पिस्तौल' इत्याख्यया प्रसिद्धानाम् ) अस्त्रविशेषाणाम् , नालोकानां गुलिकाविशे. षागामित्यर्थो वा, मुक्ति मोक्षणम्, निक्षेपमित्यर्थः / इच्छतोः अभिलषतोः, तयोः रतिमदनयोः, स्वन्नासाच्छलेन तव नासिकाद्वयव्याजेन, निह्नतां गोपिताम् , द्वयोः नलिकयोः समाहारः इति तां द्विनलिकी नलद्वयविशिष्टगुलिका क्षेपकलौहमयास्त्र. विशेषमित्यर्थः / (दोनली पिस्तौल) वेद्मि इति पूर्वेणान्वयः / उभयोरेव तुल्यदर्शन. स्वादिति भावः / तथा तव भवत्याः, निःश्वासौ एव लते निश्वासवायुप्रवाहद्वयमि. त्यर्थः / तयोः रतिस्मरयोः, मधुश्वसन वसन्तकालिकमलयजातम् , वायव्यं वायु. देवताकम, अस्त्रम् आयुधम्, वायुवाविशेषादिति भावः, वेभि इति पूर्वेणान्वयः / अहमिति शेषः / स्मरोद्दीपने स्वमतीव निपुणेति तात्पर्यम् // 136 // (हे प्रिये दमयन्ति ! ) सम्पूर्ण स्त्री-पुरुषोंका विभागकर जीतने के लिए औचित्यको विचारे ( समस्त स्त्रियोंको रति तथा समस्त पुरुषों को कामदेव जीते ऐसा उचित समझे ) हुए रति तथा कामदेवके तुम्हारे टेढ़े भ्रदय को ( रति-कामदेवके बाण छोड़ने के लिए आकर्ण खींचनेसे ) नम्र दो धनुष जानता हूँ, तथा नालीक अस्त्रको छोड़ने की इच्छा करने वाले उन दोनों के तुम्हारी नाकके व्याज ( कपट ) से गुप्त दो नालियोंसे युक्त अस्त्र-विशेष ( दो नली पिस्तौल ) जानता हूँ और तुम्हारे निःश्वासरूपी लताद्वयको उन दोनों ( रति तथा कामदेव ) का वसन्त-श्वासोत्पन्न वायव्य ( वायु-देवता-सम्बन्धी ) अस्त्र जानता हूँ। [ तुम्हारे भूदय, नासिका तथा निःश्वासके द्वारा शीघ्र कामोद्दीपन होनेसे तुम्ही कामोद्दीपनमें सबसे निपुण हो ] // 136 // पोतो वर्णगुणस्तवातिमधुरः कायेऽपि सोऽयं यथा यं बिभ्रत् कनकं सुवर्णमिति कैराहत्य नोत्कीर्त्यते ? | का वर्णान्तरवर्णना धवलिमा राजैव रूपेषु यस्तद्योगादपि यावदेति रजतं दुर्वर्णतादुर्यशः // 137 //