________________ 1476 नैषधमहाकाव्यम् / वियोगम् , आचरन्ती अनुतिष्ठन्ती, विधातृनियमेन दीर्घकालं पालयन्तौ इत्यर्थः / विहङ्गौ चक्रवाकपक्षिणी, विधिवशं देवाधीनम् , चेतनानां प्राणिनाम् , चेष्टितम् आचरणम् , इत्येवंरूपे, अनुमाने कार्यात् कारणविशेषज्ञाने विषये, प्राक्तनकर्मवशा. देव अनभिमतेऽपि विषये प्राणिनां प्रवृत्तिदर्शनादिति भावः / इदम् एतदेव, निदर्शनं दृष्टान्तः, अहह इति खेदे अद्भुते वा; तथा हि-सर्वे एव प्राणिनः दैवाधीनतयैव हित. महितं वा सर्व कार्यम् इच्छया वा अनिच्छया वा कत्त' प्रेरिता भवन्ति, ततश्च विर. हस्य अनिष्टत्वं जानन्तावपि चक्रवाकयुगलौ स्वयमेव तमाचरत इति तावेवात्र निद. निमिति निष्कर्षः // 133 // ज्ञानपूर्वक पहली समस्त चेष्टा करनेवाले भी ( इस समय भाग्यवश ) अनिष्ट विरहको भी करते हुए दोनों (चकवा-चकई ) पक्षी भाग्याधीन प्राणिचेष्टाओंके घटित होने के अनुमानमें उदाहरण हैं / [ कोई भी ज्ञानयुक्त प्राणी अपने अहित में प्रवृत्त नहीं होता, किन्तु इन दोनों चकवा चकइको अपने अहितकारक विरहमें प्रवृत्त होते हुए देखकर यह अनुमान होता है कि प्राणी भाग्येच्छानुसार ही समस्त चेष्टाओंको करता है, स्वेच्छासे कुछ भी वह नहीं कर सकता ] // 133 // अङ्घ्रिस्थारुणिमेष्टकाविसरणैः शोणे कृपाणः स्फुटं कालोऽयं विधिना रथाङ्गमिथुनं विच्छेत्तमन्विच्छता / रश्मिग्राहिगरुत्मदग्रजसमारब्धाविरामभ्रमौ दण्डभ्राजिनि भानुशाणनलये संसज्य किं तिज्यते ? / / 134 / / अङ्घीति / हे प्रियतम! रथाङ्गयोः चक्रवाकयोः, मिथुनं द्वन्द्वम् , विच्छेत्त वियोक्तुम , विशेषेण विदारयितुञ्च, अन्विच्छता अभिलषता, विधिना ब्रह्मणा अयम् एषः कालः सायंसमयः, तत्स्वरूप इत्यर्थः, कृष्णवर्णश्च, 'कालो मृत्यौ महाकाले समये यमकृष्णयोः' इति विश्वः / कृपाणः खगः, अधिः किरणः पादश्च, तत्र तिष्ठ. न्तीति अघ्रिस्थाः, ये अरुणिमानः रक्तिमानः, तान्येव इष्टकाविसरणानि इष्टका. चूर्णनिक्षेपाः, तैः शोणे रक्तवर्णे, रश्मिप्राहिणा अश्वरज्जुधारिणा, शाणयन्त्ररज्जुधा. रिणा च, गरुत्मदग्रजेन गरुडज्येष्ठेन अरुणेन, केनचित् शाणिकन च, समारब्धा प्रक्रान्ता, अविरामा अविच्छिन्ना, भ्रमिः भ्रामणं यस्य तस्मिन् , तथा दण्डेन चण्डां. शोः भानोः पारिपाश्विकेन, शाणस्थेन वत्त लेन काष्ठेन च / 'दण्डो यमे मानभेदे लगुडे दमसैन्ययोः / व्यूहभेदे प्रकाण्डेऽश्वे कोणमन्थानयोरपि // अभिमाने ग्रहे दण्ड. श्वण्डांशोः पारिपाश्विके // ' इति विश्वः / भ्राजिनि शोभमाने, भानौ सूर्ये एव, शाण. वलये शस्त्रोत्तेजनयन्त्रमण्डले, गोलाकारत्वसाधादिति भावः। संसज्य आरोग्य, स्फुटं स्पष्टं यथा भवति तथा, तिज्यते तीक्ष्णीक्रियते, किम् ? तिज निशाने