SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ एकविंशः सर्गः। 1467 घेतोभवस्य भवती कुचपत्रराजधानीयकेतुमकरा ननु राजधानी / अस्यां महोदयमहस्पृशि मीनकेतोः के तोरणं तरुणि.! न ब्रुवते भ्रवौ ते ? // चेत इति / ननु भो दमयन्ति ! कुचयोः स्तनयुगयोः, पत्रं तिलकरचनैव, राजधानीयः राजावासीभूतनगरसम्बन्धी, केतुः ध्वजः, पताकास्थानीय इत्यर्थः / मकरः मीनविशेषः यस्याः सा तादृशी, भवती त्वम् , चेतोभवस्य कामस्य, राजधानी राजावासभूता नगरो, नगरीस्वरूपेत्यर्थः / राजधान्यामेव राजभिः निजनिजासाधारणचियुक्तानां ध्वजानां स्थापनीयत्वात् कामराजस्य मुख्यध्वजः मकरः राजधानीभूतयोः तव कुचयोः चित्रितः राजते इति भावः / तरुगि! हे युवति! के जनाः, मीनकेतोः कामस्य, महोदयः आधिपत्यम् , राज्यप्राप्तिरूपोन्नति रित्यर्थः। तत्र यः महः उत्सवः, तं स्पृशति स्पर्श करोतीति तादृश्याम् / 'महोदयः कान्यकुब्जेऽप्याधि. पत्यापवर्गयोः' इति विश्वः / 'महस्तूत्सवतेजसोः' इत्यमरः / अस्यां राजधानीस्वरूपायां भवत्याम् , ते तव, ध्रुवी भ्रयुगलमेव, तोरणं बहिरिम् , बहिरस्थितवक्र काष्ठस्वरूपमित्यर्थः / न ब्रुवते ? न कथयन्ति ? अपि तु सर्व एव ब्रुवते इत्यर्थः॥१२॥ ( हे दमयन्ति ! ) स्तनदयपर ( कस्तूर्यादि रचित ) पत्ररचनारूप राजधानी-सम्बन्धिनी पताकावाली तुम मानो कामदेवकी राजधानी हो, तथा हे तरुणि ! महान् उदयवाले उत्सवोंसे युक्त ( त्वद्रूप ) इस राजधानी में तुम्हारे भ्रूद्वयको कौन लोग तोरण नहीं कहते हैं ? अर्थात् सभी कहते हैं / [ जिस प्रकार राजा अपने विशिष्ट चिह्नयुक्त पताकावाली राजधानीमें निवास करता है और उसमें ( पल्लवादि रचित ) नील तोरण रहता है, उसी प्रकार स्तनमें कस्तूरी आदि से बनाये गये मकरपत्ररूपिणी पताकासे युक्त राजधानीरूपिणी तुममें नृपरूप कामदेव निवास करता है और तुम्हारे नीलवर्ण भ्रूद्वय तोरणतुल्य हो रहे हैं। तुममें ही कामदेव सर्वोत्कर्षसे सदा निवास करता है ] // 121 // . अस्या भवन्तमनिशं भवतस्तथैनां कामः श्रमं न कथमृच्छतु नाम गच्छन् / छायैव वामथ गतागतमाचरिष्णोस्तस्याध्वजश्रमहरा मकरध्यजस्य / / 122 / / अस्या इति / हे महाराज! कामः मीनकेतनः, अस्याः दमयन्त्याः सकाशात् , भवन्तं त्वाम् तथा भवतः स्वत्तः सकाशात् , एनां दमयन्तीम् , अनिशं निरन्तरम् , गच्छन् गतागतं कुर्वन्नित्यर्थः / कथं किमर्थम् , श्रमम् आयासम् , नाम सम्भावना याम् , न ऋच्छतु ? न प्राप्नोतु ? अपि तु ऋच्छत्येव इत्यर्थः / निरन्तरं यातायात. करणादिति भावः / अथ किंवा, गतागतं गमनागमनम् , आचरिष्णोः कुर्वतः, तस्य श्रान्तस्य, मकरध्वजस्य कामस्य, वां युवयोः छाया एव कान्तिरेव, सौन्दर्यमिति यावत् , अनातप एव च / 'छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः' इत्यमरः / 1. 'कुचपत्रराजी-' इति पाठान्तरम्। 2. 'कथमृच्छति' इति 'प्रकाश-' सम्मतः पाठः। 62 नै० उ०
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy