SearchBrowseAboutContactDonate
Page Preview
Page 768
Loading...
Download File
Download File
Page Text
________________ एकविंशः सर्गः। 1465 एतामिति / हे राजन् ! स्वं भवान् , सरितः नद्याः इव, छविः शोभा, शुभ्रकान्ति. रित्यर्थः / तया हारी मनोहारी, हारः मुक्तासरः यस्याः तां, पते-सरितः नद्यः एव, छव्या कान्त्या, हारिणो मनोज्ञाः, हारामौक्तिकसरा यस्यास्ताम्, वेद्याम् अन्तः अन्त. वैदि वेदिकामध्यम्, तद्वदतिकृशा इत्यर्थः, श्रीः शोभा यस्याः ताम्, यद्वा-अन्तः शरीराभ्यन्तरे, वेदेः कीटविशेषस्य, श्रीरिव श्रीः सौन्दर्यम्, तनुतारूपा इत्यर्थः यस्यास्ताम्, कुमारसम्भवादावपि 'मध्येन सा वेदिविलग्नमध्या' इत्यत्र कीटविशेषार्थे वेदि. शब्दः प्रयुक्तः इति दृश्यते / पक्षे-अन्तर्वेदिः तदाख्यगङ्गायमुनासङ्गमस्थानम्, तेन श्रोः शोभा यस्याः तादृशम्; तथा जनमनसां लोकचेतसाम्, प्रियः प्रीतिजनका, मध्यदेशो नितम्बभागो यस्याः ताम् / पक्षे-जनमनसां लोकचित्तानाम्, प्रियः हर्ष. जनकः, मध्यदेशः 'हिमवद्विन्ध्ययोरन्तयःप्राक्कनखलादपि / प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः // ' इत्युक्तविन्ध्यहिमाचलान्तरभूभागरूपः यस्याः ताम्, एतां दम. यन्तीम्, धरामिव पृथिवीमिव, बिभ्रत् अङ्के दधानः, यस्याः दमयन्त्याः धरायाश्च, आननं मुखम्, चन्द्रः शशधर इव, पने-आननसदृशचन्द्रश्च, तस्य भासा प्रभया, उल्लासितः हर्ष प्रापितः उच्छवसितश्च सन् , पयसां राशिः समुद्रः इव, विभासि शोभसे / सागरः हि चन्द्रभासा उच्छवसितः भवति इति प्रसिद्ध एव // 119 // समान शोमावाली अर्थात् पतली कटिवाली तथा लोगों के मनको प्रिय कटिभागवाली इस ( दमयन्ती ) को अङ्कमें धारण करते हुए और इस ( दमयन्ती) के मुखचन्द्रकी कान्तिसे हर्षित तुम; शोभाले मनोहर नदीरूप हारवाली, गङ्गा-यमुनाके मध्यमागस्थित ( अन्तर्वेदि नामकी ( भूमिसे शोभित तथा जन-मनके प्रिय मध्यदेश (हिमालय-विन्ध्याचलका मध्यमाग-आर्यावर्त ) वाली पृथ्वी को अङ्क ( बीच ) में धारण करते हुए तथा चन्द्र कान्तिसे वर्द्धमान समुद्र के समान शोभते हो // 119 // दत्ते जयं जनितपत्रनिवेशनेयं साक्षीकृतेन्दुवदना मदनाय तन्वी / मध्यस्थदुर्बलयमत्वफलं किमेतद् भुक्तिर्यदत्र तव भर्तितमत्स्यकेतोः // दत्त इति / हे महाराज ! जनितं कृतम्, सखिभिः विचारकेण चेति शेषः / पत्रस्य कस्तूर्यादिकल्पितमकरपत्रवल्ल्याद्याकारतिलकस्य जयसूचकपत्रस्य च, निवेशनं रच. नम्, अङ्कनमित्यर्थः, दानमित्यर्थश्च / यस्याः सा तिलकभूषितकपोलादिका विचारकैः विचार्य लिखितजयपत्रा च, तथा अक्षिभ्यां सह वर्तमानः साक्षः। 'बहुव्रीही सक्थ्यपणोः स्वाङ्गात्-' इति समासान्तः षच् / असाक्षः साक्षः कृतः साक्षीकृतः सलोचनी. कृतः, इन्दुः चन्द्र एव, वदनं मुखं यस्याः सा, इन्दोः सलोचनीकरणाभावे वदने नेत्रस्थितिः कथं युज्यते इति भावः। अन्यत्र-साक्षीकृताः साक्षाद् द्रष्ट्रीकृताः, इन्दुवदनाः चन्द्रमुख्यः सख्यः यस्याः सा, कामजयविषये भैम्याः सख्यः एव साक्षि. ण्यः वर्तन्ते, यतः भैम्यां नलस्य कामवश्यता ताभिरेव साक्षात् दृष्टा इति भावः।
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy