________________ एकविंशः सर्गः। 1463 बनाकर स्तुति करती हुई गन्धर्वराजकन्याओं या दमयन्तीकी सखियोंने अपने औद्धत्यको दूर किया है ] // 116 // भूभृद्भवाऽङ्कभुवि राजशिखामणेःसा त्वञ्चास्य भोगसुभगस्य समः क्रमोऽयम्। यन्नाकपालकलनाकलितस्य भर्तुरत्रापि जन्मनि सती भवती स भेदः।।११७।। भूभृदिति / हे दमयन्ति ! भूभृतः हिमालयभूधरात् , भीमनृपतेश्च / 'भूभृद् भू. मिधरे नृपे' इत्यमरः / भवति जायते या सा तादृशी, हिमालयाङ्गजा राजतनुजा च, सा पार्वती, त्वं भवती च, भोगैः भूषणीकृतसर्पशरीरैःस्रकचन्दनादिसम्भोगैश्च / 'भोगः सुखे ख्यादिभृतावहेश्च फणकाययोः' इत्यमरः। सुभगस्य सुन्दरस्य, तथा राजा चन्द्रः, शिखामणिः शिरोरत्नं यस्य तस्य इन्दुमौले, राज्ञां नृपाणाम् , शिखा. मणेः चूडारत्नस्य च, नृपश्रेष्ठस्येत्यर्थः / 'राजा मृगाङ्के क्षस्त्रिये नृपे' इत्यमरः / अस्य शिवस्य नलस्य च, अङ्कभुवि क्रोडदेशे, वर्त्तते वर्तसे च इति शेषः / अयम् एषः, उक्तरूप इत्यर्थः / क्रमः परीपाटी, सादृश्यमिति यावत्। समः तुल्यः, पार्वत्या सह ते इति शेषः / परन्तु, भवती स्वम् , अत्रापि अस्मिन्नपि जन्मनि, न केवलं पूर्वज न्मनि इति भावः / नाकस्य स्वर्गस्य, पालः पालकः इन्द्रः, तस्य कलनया साह. श्येन, अंशतया वा, कलितस्य विदितस्य, वासवतुल्यस्येत्यर्थः। भत्त: पत्युः, नलस्य सम्बन्धिनी सती इत्यर्थः / यत् सती पतिव्रतैव, वर्त्तते इति शेषः / पार्वती तु अत्र जन्मनि कपालस्य ब्रह्मकपरस्य, कल नया धारणया, कलितः विदितः, स न भवतीति अकपालकलनाकलितः, तादृगपि न भवतीति नाकपालकलनाकलितः तस्य गृहीत. ब्रह्मकपालत्वेन विख्यातस्य, भत्तः पत्युः शिवस्य, सम्बन्धिनी सती, यत् , असती वर्तते इति शेषः / सः उक्तरूप एव, भेदः अन्तरम्, पार्वत्याः तव च इति शेषः / तथा च दुर्गा पूर्वजन्मनि दक्षकन्यापत्ये एव सतीनाम्ना विदिता आसीत् , हिमा. लयदुहितृत्वेऽधुना तु पार्वतीनाम्ना विदिता सती असती सतीति नामविरहिता, भबती तु अस्मिन्नपि जन्मनि पातिव्रत्येन सतीति प्रसिदा, अयमेव तव पार्वत्याश्च भेदः इति भावः // 117 // (हे दमयन्ति !) वह पर्वतकन्या (पार्वती) सर्पशरीर ( को शरीरमें भूषणरूपसे धारण करने ) से सुन्दर चन्द्रचूड ( भगवान् शङ्कर ) के अङ्कमें है तथा राजकुमारी तुम (चन्दनादि. लेपरूप ) भोगोंसे सुन्दर राजश्रेष्ठ ( नल ) के अङ्कमें हो, यह क्रम (पार्वती तथा तुम्हारा क्रमशः शिव तथा नलके साथ सम्बन्धपरम्परा अथच-शब्दश्लेष) समान है; (किन्तु पार्वतीके साथ इस प्रकार समानता होनेपर भी असमानता इस कारण है कि-) तुम इस जन्ममें भी ( 'अपि' शब्दसे पूर्व जन्म में भी ) स्वर्गाधीश (इन्द्र ) के अंशसे युक्त पति (नल) की सती ( पतिव्रता ) हो और पार्वती ( यद्यपि पूर्व जन्ममें दक्षप्रजापतिकी कन्या होकर सती ( 'सती' नामवाली ) थी, परन्तु इस जन्ममें ) अ-कपाल धारण करनेसे भिन्न अर्थात कपालयुक्त (मिक्षार्थ ब्रह्मकपालको धारण किये हुए ) पति (शङ्करजी) की सती ( 'सती'