SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ 1446 नैषधमहाकाव्यम् / स्तमयलक्षणस्य वा मोक्षस्य अनुपपत्तिविषये इत्यर्थः / स्वत्समाधि तव ध्यानम् , अवधूय परित्यज्य, तव ध्यानं विनेत्यर्थः / कस्यचन कस्यचित् अपि, आचार्यस्येति शेषः / अपरः स्वत्समाधिभिन्नः, समाधिः समर्थनम् , समाधानमित्यर्थः / सिद्धान्त इति यावत् , 'समाधिनियमे ध्याने नोवारे च समर्थने' इति विश्वः / न तावत् नैव, स्फुरति प्रकाशते / तथा हि पूर्वपूर्वजन्मार्जितकर्मभिः उत्तरोत्तरजन्मपरिग्रहात् मुक्तेाघातः, तत्र च तव ध्यानेन तव साक्षात्कारलाभात् तेनैव च प्राक्तनकर्मक्ष. यात् मुक्तिर्लभते जीव इति सर्वेषामेव तत्वज्ञानिनां सिद्धान्तः, 'भिद्यते हृदयग्रन्थिः' रोत्तर जन्मपरम्परा चालू रहनसे मुक्तिप्राप्तिके विनाशके विषय में किसी ( आचार्य, या विद्वान् आदि ) को तुम्हारे ध्यानके अतिरिक्त दूसरा कोई समाधान नहीं स्फुरित होता है / [ पूर्वजन्मोपार्जित कर्मोसे उत्तरोत्तर जन्म-परम्परा होते रहनेसे संसारनिवृत्ति नहीं होने के कारण मुक्तिप्राप्ति किस प्रकार हो सकती है.? ऐसा सोचनेवाले किसी आचार्यादिको भी आपके ध्यान के अतिरिक्त कोई दूसरा समाधान नहीं प्रतिभासित होता है। आपका ध्यानसे ही दर्शन होकर कर्मक्षयपूर्वक मुक्तिप्राप्ति होना सब आचार्यों ने एक मतसे स्वीकार किया है, अत एव आप ही मुक्ति के कारण हैं ] // 89 // ऊर्ध्वदिक्कदलनाद् द्विरकार्षः किं तनुं हरिहरीभवनाय ? | किञ्च तिर्यगभिनो नृहरित्वे कः स्वतन्त्रमनु नन्वनुयोगः ? ||10|| ऊर्चेति / हे विष्णो ! हरिहरीभवनाय विष्णुशङ्करीभावाय, हरिहरमूर्तिपरिग्र. हायेत्यर्थः / ऊर्ध्वा दिक यस्मिन् तत् तादृशम् उर्वदिकम् उपरिभागीयमित्यर्थः। वामदक्षिणभावेन चरणात् मूर्द्धपर्यन्तम शिमिति यावत् / बहुव्रीहिसमासे समासान्तकः। यत् दलनं विभागः तस्मात् हेतोः, एकमेव देहमूर्धाधोभावेन द्विधा विभज्येत्यर्थः / किं किमर्थम् , तनुं शरीरम् , द्विः द्विधा, सम्पूर्णदक्षिगार्द्ध हरिरूपा तादृशवामाद्धे च हररूपामित्यर्थः / अकार्षीः ? कृतवान् असि ? हरिहररूपधा. रणाय कथ वा पादादारभ्य शिरो यावत् द्विविधरूपेण शरीरं द्विधा विभक्तं कृतवान् असि ? इत्यर्थः / किञ्च किमर्थ वा, नृहरिस्वे नरसिंहभावे, नरसिंहरूपधारणे इत्यर्थः। तनुं तिर्यक वक्रं यथा भवति तथा, अभिनः ? भिन्नवान् असि ? कण्ठात् अधोदेशस्य नररूपेण ऊर्ध्वभागस्य च सिंहरूपेण विभागम् अकरोः ? इत्यर्थः / ननु भो विष्णो! स्वतन्त्रं स्वाधीनम् , पुरुषवरं भवन्तमिति शेषः, अनु लक्ष्यीकृत्य कः पूर्वोक्तरूपः को नाम, अनुयोगः ? प्रश्नः ? 'प्रश्नोऽनुयोगः पृच्छा च' इत्यमरः। स्वतन्त्रेच्छे परमेश्वरे कथमेवं कृतं कथं वा नैवमिति प्रश्नो न युज्यते, यतः स हि स्वेच्छया यथेष्टमेव कर्तुं शक्यते, तत्र कस्यापि किमपि प्रश्नावसरो नैव स्थातुमर्हति इति भावः॥९॥
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy