________________ 1444 नैषधमहाकाव्यम् / स्यज्यत इति / हे विष्णो ! जलजेन पद्मन, उच्चैः महत् , सुभगभूयं सुभगत्वम्, कोमलत्वरक्तरवादिरूपसौभाग्यमित्यर्थः / भुवो भावे' इति क्यप।शिक्षितुम् अभ्यसितुम् इव, ते तव, करः हस्तः, न त्यजते न हीयते / तथा नयनायितं वामलोचनवत् इति श्रुतेरिति भावः / कुमुदानां कैरवाणाम्, हासकराः विकासकारिणः अंशवः किरणा यस्य सः तादृशः चन्द्रश्च, उच्चैः सुभगभूयं शिक्षितुम् इव ते आननं मुखम, सेवते आश्रयति। कमलं मार्दवादिसौभाग्यं चन्द्रश्च निष्कलकत्वादिसौभाग्यं शिक्षितुमिव तव करं वदनञ्च शुश्रषते, गुरुसेवाया एवं विद्यालाभहेतुत्वादिति भावः। कमल ( अथवा-शङ्ख) मानो ( अरुणत्व-कोमलत्वादि ) अधिक सौभाग्यकी उच्च शिक्षा ग्रहण करने के लिए तुम्हारे हाथको नहीं छोड़ता है तथा (चन्द्रको विष्णुका वामनेत्र होनेसे ) नेत्रके समान आचरण किया है बिम्ब (मण्डल ) जिसका ऐसा कुमुदविकासकारी किरणोंवाला चन्द्रमा मानो ( आह्वादकत्व-निष्कलङ्कत्वादि ) अधिक सौभाग्यकी उच्चशिक्षा ग्रहण करने के लिए तुम्हारे मुखको नहीं छोड़ता है। [निरन्तर गुरुके समीप रहनेसे उच्चशिक्षाकी प्राप्ति होती है, अत एव पद्म तथा चन्द्रका कृष्णके हाथ तथा मुखका त्याग नहीं करना उचित ही है / 'पाञ्चजन्य-' इत्यादि तीन श्लोकों (2284-86 ) से विष्णुके मूल प्रकृतिका वर्णन किया गया है ]. // 86 // ये हिरण्यकशिपुं रिपुमुच्चै रावणञ्च कुरुवीरचयं च / हन्त हन्तुमभवंस्तव योगास्ते नरस्य च हरेश्च जयन्ति / / 87 / / ये इति / हे विष्णो ! उच्चैः महान्तम्, रिपुं शत्रुम, हिरण्यकशिपुं तदाख्यदैत्ये. श्वरम्, रावणञ्च राक्षसाधिपं दशाननञ्च, तथा कुरुवीरचयञ्च दुर्योधनप्रभृतीनां समूहञ्च, हन्तुं विनाशयितुम् , यथाक्रम क्रमानुसारेण, उत्तरोत्तरमित्यर्थः / नरस्य च मनुष्यस्य च, हरेश्च सिंहस्य च, मनुष्याकारसिंहाकारयोरित्यर्थः। नरस्य च तथा नरस्य च अर्जुनस्य च, हरेश्च कृष्णस्य च, नरनारायणयोरित्यर्थः / 'नरोऽर्जुने मनुष्ये च' इति यादवः। 'यमानिलेन्द्रचन्द्राकविष्णुसिंहांशुवाजिषु / शुकाहिकपिभेकेषु हरिना कपिले त्रिषु // ' इत्यमरः / ये योगाः सम्बन्धविशेषाः, देहेन व्यक्ति तया च ये सम्मिश्रणविशेषा इत्यर्थः / तत्र हिरण्यकशिपुहनने नरसिंहयोः शरीर. संयोगः, रावणहनने रामसुग्रीवयोः नरवानरयोः व्यक्त्योः संयोगः, कुरुवीरचयहनने च नरनारायणयोः अर्जुनकृष्णयोर्यक्त्योः संयोगो ज्ञातव्यः, अभवन् अजायन्त, हन्तेति हर्षे, तव भवतः, ते योगाः, जयन्ति सर्वोत्कर्षण वर्तन्ते, अतस्तान् प्रणमा मीति भावः // 87 // तुम्हारे जो योग (दुहरे संयोग) प्रबल शत्रु हिरण्यकशिपु, रावण तथा (भीष्म-दुर्योधनादि ) कौरववंशज वीर-समूहको मारने के लिए हुए; नर तथा हरिके वे योग सर्वोत्कर्षसे विजयी होते हैं आश्चर्य है ! [ हिरण्यकशिपु को मारने के लिए मनुष्य तथा हरि (सिंह)