________________ एकविंशः सर्गः। 1431 शेषावताररूपोऽपि बलभद्रो भवानेव, न तु स त्वत्तो भिन्न इत्यर्थः / त्वं बलभद्रः, स एव शेषः / त्वत्तो हली न भिद्यते, हलिनश्च शेषो न भिद्यत इति वा / यतः कायस्य सम्बन्धाजरसा सितकेशो धवलितकचः किलेत्यागमे। विष्णुपुराणादौ च यदुक्तम्-'उजहारात्मनः केशौ सितकृष्णौ ततः प्रभुः।' इति / न विद्यते परोत्कृ. ष्टाऽन्या यस्याः सा तावकी अपरा तनुस्त्वत्सम्बन्धिनी सर्वोत्कृष्टा सत्त्वमूर्तिस्तस्याः सितकेशः श्वेतकेशरूपो हली तवावतारोंऽशावताररूपोऽसौ हली त्वं किल / तदव. यवभूतकेशरूपत्वात्तस्य / स च हल्येव शेष इति वा। शेषरूपबलदेवलक्षणोऽसाव. वतरो मूर्तिः / अत एव तस्या भवदीयापरतनोजरतो जरसा धवलीकृतस्य चिकुर. नालस्य केशदण्डस्य विलासं वर्णसारूप्यं साधु यथा तथा धत्ते। अतिगौरो बल. देवस्त्वदीयापरतनुर्धवलकेश इव भातीत्यर्थः। शेषस्यापि दीर्घत्वधवलत्वाभ्यां जरा. धवलदीर्घकेशसारूप्यधारणं युक्तमेव / 'कारणगुणा हि कार्ये गुणानारभन्ते' इति न्यायाञ्च युक्तमेव / 'अंशावतारो बलभद्र' इति चोक्तम् / अत्र श्वेतकेशः सहज एव, न तु जरायोगात् , इति वा। यतो हरिनित्यतरुण इति पुराणादिप्रसिद्धिः। वस्तुतस्तु-कस्य ब्रह्मसुखस्येशी सुखरूपावित्यर्थः / प्रकाशकत्वेन सत्वस्यासितशब्द. वाच्यत्वात् , मोहकत्वेन च तमसः कृष्णशब्दवाच्यत्वात् सितकृष्णी सत्वतमोगुणास्मकावेताववतारौ भूभारोत्तारणार्थ प्रभुरादिनारायणः स्वस्मात्प्रकटीचकारेति विष्णु. पुराणस्थ 'सित-कृष्ण' पदस्यार्थः / 'कृष्णस्तु भगवान् स्वयम्' इति भागवतवचनेन कृष्णस्तु-लीलाविग्रहधारी परब्रह्मैव / 'समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः।' इति भगवद्वचनात् / बलभद्रस्त्ववतारः 'रामो रामश्च रामश्च' इति वच. नात् / अन्यथा बलभद्रस्य सत्त्वमूर्तित्वम् , कृष्णस्य तमोमूर्त्तित्वमापोत, न च तथास्तीति बलभद्रस्य तमःप्रधानत्वदर्शनादित्याशयः / 'शितिकेश-' इति पाठे'शिती धवलमेचकी' इत्यभिधानात्वदीयपुराणतनोः सम्बन्धी शितिकेशः श्यामकेश. रूपस्त्वम् , हली च धवलकेशरूपः, स एव च हली शेषो. बलभद्रः शेषावतारः इति पुराणादौ / स त्वदीयधवल केशविलासं धत्ते तत्साधु / कृष्णस्य कृष्णवर्णस्वाद्ध (ख) लिनश्वातिगौरत्वाद्यथाक्रमं श्यामसितकेशत्वमौत्प्रेक्षिकत्वेनेव व्याख्येयमित्यलमति. विस्तरेण / 'तावकापर-' इति पाठः साधीयान् , यतः 'युष्मदस्मदोः-' इत्यणि तवकादेशे वृद्धौ च 'वृद्धिनिमित्तस्य-' इत्यादिना पुंवद्भावप्रतिषेधे प्रसक्तेऽपि कर्मधारयत्वात् 'पुंवत्कर्मधारय-' इति प्रतिप्रसवात्पुंवद्भावः / अवतरः पूर्ववत् // 5 // ) ___ तुम्हारी सर्वश्रेष्ठ मूर्ति के श्वेतकेशवाले हलधारी ( बलराम ) हैं, वह शेष ( शेषावतार) तुम्ही हो, ( जो बलराम हैं, वही शेषनाग हैं और वह तुम्हीं हो अर्थात् बलराम तथा शेषनागमें कोई भेद नहीं है और उक्तरूप तुम्ही हो / शरीर-सम्बन्धसे बलराम श्वेतकेश हैं ) / शेषनागरूप 'बलराम' की यह मूर्ति तुम्हारे सर्वोत्कृष्ट शरीरके वार्द्धक्यके कारण श्वेत किये गये केश-समूहके विलासको जो धारण करती है, यह ठीक ही है। [ अत्यन्त गौरवर्णवाले