________________ नैषधमहाकाव्यम् / किया जाता है / [ लोकमें भी जो जिससे अधिक डरता है, वह उसके वर्णनके आरम्भमें ही मलिनमुख होकर अन्यत्र चला जाता है, अतः अकीर्ति भी इसके वर्णनके आरम्भसे ही नहीं सुनायी पड़ती / अविद्यमान भी शशशृङ्ग, आकाशपुष्प, वन्ध्यासुत आदिका शब्दसे वर्णन किया जाता है, किन्तु इसके वर्णनमें भी अकीर्तिकी चर्चा तक नहीं होती यह आश्चर्य है / अथवा तीनों लोकोंका धोया जाकर श्वेत होना तथा अचेतन भी अकीर्तिको भय उत्पन्न होना आश्चर्य है ] 104 / / अथावदद्भीमसुतेङ्गितात् सखी जनैरकीर्तिर्यदि वाऽस्य नेष्यते / मयाऽपि सा तत् खलु नेष्यते परं सभाश्रवःपूरतमालवल्लिताम् / / अथेति / अथ सखी भीमसुताया इङ्गितात् अनभिमतसूचकचेष्टितं परिज्ञाय, अवदत् , किम् ? इत्याह, अस्य अकीर्तिजनै प्यते नाङ्गीक्रियते, इषेः कर्मणि लट, यदि वा तत्तर्हि, मया सा एतदकीर्तिः, सभायाः श्रवःपूरः कर्णावतंसः, या तमालवल्लिता तां, परं भृशं नेष्यते अपि ? परन्तु प्रापयिष्यते खलु, नयतेः कर्मणि लुट् अहमस्य अपकीर्ति सभायां श्रावयिष्यामि इत्यर्थः // 105 // इस ( सरस्वती देवीके उक्त ( 12 / 88-104 ) वर्णन करने ) के बाद भीमकुमारी ( दमयन्ती ) की चेष्टा ( इशारा-सङ्केत ) से सखीने कहा-लोग यदि इसकी अकीर्तिको नहीं चाहते तो मैं भी उस अकीर्तिको सभासदोंके कर्णाभरणकी तमालवल्लि के भाव प्राप्त कराती हूँ अर्थात् इस राजाकी अकीतिं सभासदोंको सुनाती हूँ। ( अथवा-मैं भी उसे ( इसकी अकीर्तिको ) नहीं चाहती, किन्तु सभासदों के ... ...) // 105 // अस्य क्षोणिपतेः परार्द्धपरया लक्षीकृताः सङ्घयया प्रज्ञाचक्षुरवेक्ष्यमाणतिमिरप्रख्याः किलाकीर्तयः / गीयन्ते स्वरमष्टमं कलयता जातेन बन्ध्योदरात् मूकानां प्रकरण कूर्मरमणीदुग्धोदधेः रोधसि // 106 // स्वयं श्रावयति, अस्येति / पराद्धं चरमा सङ्ख्या, ततोऽपि परया अधिकया, सङ्घयया लक्षीकृता विषयीकृताः, तत्सङ्ख्याता इत्यर्थः, प्रज्ञैव चक्षुर्येषां ते प्रज्ञाचक्षुषो जात्यन्धाः, तैरवेक्ष्यमाणं तदेकग्राह्यं, यत्तिमिरं तत्प्रख्याः तत्सङ्काशाः, अतिकृष्णाः इत्यर्थः, अस्य क्षोणीपतेः अकीर्तयः अष्टमं स्वरं निषादादिसप्तस्वरात् अतिरिक्तं स्वरं, कलयता प्रयुञानेन, बन्ध्याया अनपत्यायाः, उदरात् जातेन मूकानां प्रकरण सङ्घन, कूर्मरमणीनां कूर्मस्त्रीणां, दुग्धानि क्षीराणि, तेषामुदधेः अब्धेः, रोधसि तीरे, गीयन्ते किल, तत् कथं जनै कर्ण्यन्ते इत्यर्थः; एतेनास्य अकीर्तयः सन्ति जनैरपि श्रुता इत्यर्थः प्रथमं प्रतीयते पर्यवसाने तु सङ्ख्यादीनां परार्द्धपरत्वादिकं यथा अलीकं तथा एतस्याकीर्तयोऽपि खपुष्पादिवत् अलीका इति स्तुतिरेव गम्यते / अत्र निन्दया स्तुतिप्रतीतिाजस्तुतिभेदालङ्कारः // 106 //