SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ 1384 नैषधमहाकाव्यम् / यक्षेति / उच्चाः उन्नताः, कुचाः स्तना यासां तादृश्यः, अङ्गनाः स्त्रियः, प्राक् प्रथमम् , यसकर्दमेन कर्पूरादियोगजेन सुगन्धिस्नानीयचूर्णेन / 'कर्पूरागुरुकस्तूरीक क्कोलर्यक्षकर्दमः' इत्यमरः। मृदु कोमलं यथा तथा, उन्मृदितं शोधितम् , अङ्गं शरीरं यस्य तं तादृशम् , तथा कुरङ्गमदेन कस्तूर्या, मीलितः सम्बन्धं प्रापितः, लिप्त इति यावत् , मौलिः मस्तकः यस्य तं तादृशम् , तं नलम् , अनुबन्धिताः अनुबन्धं गमिताः, स्वसौगन्धात् संयोगं प्रापिता इत्यर्थः। भृङ्गाः भ्रमराः येषु तैः तादृशैः, गन्धवाभिः गन्धोदकैः साधनैः, सिषिचुः सिक्तवत्यः, स्नपयामासुरित्यर्थः // 7 // ___ यक्षकदमके उबटन लगाये हुए अङ्गोवाले तथा पहले कस्तूरीसे लिप्त शिरवाले नलको उन्नत स्तनोंवाली ( युवती ) स्त्रियोंने ( अधिक सुगन्धि होनेसे ) भ्रमर जिसपर आ रहे हैं ऐसे सुगन्धयुक्त पानीसे नहलवाया [ 'अमरकोषके अनुसार 'कपूर, अगरु, कस्तूरी और ककोल' से, तथा 'गरुडपुराणके अनुसार उक्त चारो द्रव्य तथा चन्दनसे बनाये गये उबटनको 'यक्षकर्दम' कहते हैं / इसके विषयमें भिन्न-भिन्न मत जानने के इच्छुकोंको अमरकोषकी मत्कृत 'मणिप्रमा' व्याख्याकी 'अमरकौमुदी' नामक टिप्पणी देखनी चाहिये ] // 7 / / भूभृतं पृथुतपोधनमाप्तस्तं शुचिः स्नपयति स्म पुरोधाः / सन्दधजलधरस्खलदोघास्तीर्थवारिलहरीरुपरिष्टात् / / 8 / / भूभृतमिति / तदनन्तरं आप्तः विश्वस्तः, शुचिः शुद्धः पुरोधाः पुरोहितः, जल. धरान नलपूर्णघटात् , स्खलन् पतन् , ओघः प्रवाहः यासां ताः तादृशीः, तीर्थवा. सणगङ्गादितीर्थोदकानाम् , लहरीः तरङ्गान् , धारा इति यावत् , उपरिष्टात् मस्त. कोपरिभागे / 'उपर्युपरिष्टात्' इति निपातनात् साधुः / सन्दधत् सन्दधानः सन् , वर्षयन् सन् इत्यर्थः / पृथुना महता, तपसा तपस्यया, घनं परिपूर्णम् , भूभृतं राजानम् , तं नलम् , स्नपयति स्म अभिषिञ्चति स्म, स्नापितवान् इत्यर्थः / अन्यत्रआप्तः प्राप्तः, शुचिः आषाढः / 'शुचिः शुद्धेऽनुपहते शृङ्गाराषाढयोरपि' इति विश्वः / जलधरेभ्यः मेघेभ्यः, स्खलन् पतन् , ओघः प्रवाहो यासां ताः तथोक्ताः, तीर्थवारिलहरीः पूतजलप्रवाहान् , उपरिष्टात् मस्तकोपरि, सन्दधत् सन्दधानः, वर्षयन् सन् इत्यर्थः / पृथोः तदाख्यस्य वेणपुत्रस्य नृपभेदस्य, 'पृथुः स्थात् महति त्रिषु / त्वक्पयां कृष्णजीरेऽस्त्री पुमानग्नौ नृपान्तरे // ' इति मेदिनी / तपसा तपस्याप्रभावेण, घनम् अशिथिलम् , दृढमित्यर्थः / तं प्रसिद्धं, भूभृतं भूमिधरं, हिमालयादिपर्वत. मित्यर्थः / 'भूभृद् भूमिधरे नृपे' इति विश्वः / स्नपयति स्म / अङ्गनाः सामान्यजलेन 1. तद्यथा-'कर्पूरागुरुकस्तूरीकक्कोलर्यक्षकर्दमः।' इति (अमरः 2 / 6 / 133) / 2. तद्यथा-'तथा कर्पूरमगुरुः कस्तूरी चन्दनन्तथा। कक्कोलञ्च भवेदेभिः पञ्चभिर्यक्षकर्दमः // ' इति /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy