________________ नैषधमहाकाव्यम् / इदमिति / इदन्नृपप्रार्थिभिः इमं नृपमेव प्रार्थयमानैः, अर्थिभिः याचकैः, उज्झितः परित्यक्तः, अनेन नृपेणैव सकलाभीष्टपूरणात् इति भावः, रोहणो रोहणाद्रिः सुमेरुः, मणिप्ररोहेण नवरत्नाङ्कुरोद्भेदेन, विवृश्य अव्ययीभावात् वर्द्धित्वा, कियदिनैः कतिपय. दिनैः एव, अम्बरम् आकाशम् , आवरिष्यते आच्छादयिष्यति, मुनिः अगस्त्यः सुधा वृथैव, विन्ध्यं भूधरम् अरुद्ध स्तम्भयामास, रोहणस्य तत्कार्यकारित्वादिति भावः / अत्र रोहणाद्रेः ईदृग्विधत्वासम्बन्धेऽपि तत्सम्बन्धोक्तेरतिशयोक्तिः॥ 9 // ( अतिशय वदान्य ) इस ( मगधेश्वर ) से याचना करनेवाले याचकोंसे ( इस राजासे ही अभिलषित दान मिल जाने के कारण आवश्यकता नहीं होनेसे ) छोड़ा गया 'रोहण' पर्वत अर्थात् 'रत्नाचल' मणियों के अङ्कुरोंसे अत्यन्त बढ़कर कुछ दिनोंमें आकाशको रोक लेगा, ( अत एव ) मुनि '( अगस्त्यजी ) ने विन्ध्य पर्वतको व्यर्थमें रोका // 90 // भूशक्रस्य यशांसि विक्रमभरेणोपार्जितानि क्रमात् एतस्य स्तुमहे महेभदशनस्पर्धीनि कैरक्षरैः ? . लिम्पद्भिः कृतकं कृतोऽपि रजतं राज्ञां यशःपारदै रस्य स्वर्णगिरिः प्रतापदहनैः स्वर्ण पुनर्निर्मितः / / 61 / / भूशक्रस्येति / भूशक्रस्य भूदेवेन्द्रस्य, एतस्य राज्ञः सम्बन्धीनि, विक्रमभरेण पराक्रमातिशयेन, क्रमात् उपार्जितानि महेभदशनस्पर्धनि गजेन्द्रदन्तसवर्णानि, अतिशुभ्राणीति भावः, यशांसि कैः अक्षरैः अकारादिभिर्वणः, स्तुमहे ? वर्णयामः ? एतस्य यशसामानन्त्यात् वर्णानान्तु पञ्चाशन्मात्रत्वात् स्तोतुं शक्यन्ते इत्यर्थः / तथा हि, लिम्पद्भिः स्वर्णगिरिमेव रक्षद्भिः, राज्ञाम् अरिनृपाणां, यशोभिरेव पारदैः रसैः, 'रसः सूतश्च पारदे' इत्यमरः, कृतकं कृत्रिमं, रजतं कृतोऽपि स्वर्णगिरिः हेमाद्रिः, अस्य प्रतापदहनैः प्रतापरूपैरग्निभिः, पुनः स्वर्ण निर्मितः कृतः, पारदलि. प्तसुवर्ण रजतवत् श्वेतीभवति तत् पुनरग्निदाहात् प्रकृतिस्थं भवतीति प्रसिद्धमेव / अत्राप्युक्तरूपासम्बन्धेऽपि तत्सम्बन्धोक्तरतिशयोक्तिः // 91 // पृथ्वीपति इस (मगधेश्वर ) के अतिशय पराक्रमकी बहुलतासे क्रमशः उपार्जित यशकी प्रशंसा (हम ) किन अक्षरों ( शब्दों) से कर ( अक्षर संख्याके परिमित अर्थात् केवल पचास तथा इसके यशके अपरिमित होनेके कारण उतने अक्षरोंसे इसके यशकी प्रशंसा करना अशक्य है, तथापि कुछ वर्णन करती है ), राजाओं ( दूसरे राजाओं) के। ( सुमेरुको ही ) लुप्त करते हुए यशोरूपी पारदसे कृत्रिम ( बनावटी) चाँदी बनाया गया स्वर्णपर्वत ( सुमेरु ) इस ( मगधेश्वर ) की प्रताप रूपी अग्निसे फिर सोना बना दिया गया है / [ पारदके लेपसे सोना आदि धातु कृत्रिम चाँदी ( चाँदी-से श्वेतवर्ण ) हो 1. एतत्पौराणिकी कथा प्राक (5 / 130) 'मणिप्रभा' यामेव द्रष्टव्या। . 2. पाणिनिमते वर्णानां त्रिषष्टित्वञ्चतुष्पष्टित्वं वा बोध्यम् (द० पा०शि० श्लो०३)