________________ विंशः सर्गः। 1303 कैतावान्नर्ममर्माविद्विद्यते विधिरद्य ते ? / इति तं मनसा रोषादवोचद्वचसा न सा / / 7 / / क्वेति / अद्य इदानीमपि, त्वयि मम प्रगाढानुरक्तिं विदित्वाऽपीति भावः / यद्वा-प्रत्यूषे उत्थाय स्नानाथं गतोऽसि, तदनन्तरं बहवः काला: अपगताः, इदानीमपीति भावः / ते तव, एतावान् इयान् , नर्मणः क्रीडासुखस्य, मर्म विध्यतीति मर्मावित् मर्माभिघातकः, अतीव क्लेशप्रदप्रतिबन्धक इत्यर्थः। 'नहिवृति-' इत्यादिना पूर्वस्य दीर्घः। विधिः नित्यक्रियानुष्ठानम्, क कुतः, किमर्थमित्यर्थः / विद्यते ? अस्ति ? बहुक्षणं त्वया सह वियुक्ता अस्मि, न पुनरिदानीं विलम्ब सोढुं मया शक्यते, अतः वैधानुष्ठानमिदानी तिष्ठतु, आगच्छ मत्समीपमित्याशयः, इति एवम् , सा भैमी, रोषात् कोपात् , नलस्य आगमनविलम्बजनिताभिमानादिति भावः / तं नलम् , मनसा चेतसा, अवोचत् उक्तवती, वचसा वाक्येन, सुस्पष्टमित्यर्थः, न, अवोचदिति पूर्व क्रियया अन्वयः / लज्जादाक्षिण्यादिति भावः // 7 // उस ( दमयन्ती) ने उस (नल ) के प्रति मनसे ही क्रोधयुक्त यह वचन कहा, ( लज्जा तथा दाक्षिण्यके कारण ) वचनसे नहीं कहा-आलिङ्गनादि क्रीडा-रहस्यका विघातक आज इतनी विधि (नित्यानुष्ठान ) कहांसे हो गया ? [ 'आपको स्नानार्थ गये बहुत विलम्ब हो गया, आजतक इतना नित्यानुष्ठान कभी नहीं करते थे, सो आज मेरी आलिङ्गनादि क्रीडाका विघातक इतना नित्यानुष्ठान कहांसे बाकी रह गया ?' इस प्रकार दमयन्तीने क्रोधसे नलको मूक उत्तर दिया, स्पष्ट कुछ नहीं कहा ] / / 7 / / क्षणविच्छेदकादेव विधेर्मुग्धे ! विरज्यसि / 'विच्छेत्ताहे चिरं नु त्वा हृदाऽऽह स्म तदा कलिः / / 8 / / क्षणेति / मुग्धे ! हे मूढे! भैमि! क्षणविच्छेदकादेव किञ्चित्कालमात्रविरहसम्पादकादेव, विधेः अनुष्ठानात् , विरज्यसि विरक्ता भवसि, किन्तु, नु भोः ! त्वा स्वाम् / 'स्वामौ द्वितीयायाः' इति त्वाऽऽदेशः / चिरं चिरकालम , विच्छेत्ताह विच्छे. तस्यामि / छिदेः स्वरितेत्त्वाल्लुटि तङि इट् , 'स्यतासी लुलुटोः' इति धातोः तालि प्रत्यये कृते 'टित आत्मनेपदानां टेरे' इत्यनेन इटष्टेरेत्वे 'ह एति' इति सकारस्य हकारः / अहमिति शेषः / इति एवं, तदा तत्काले, दमयन्त्याः मुखमलिनीकरणसमये इत्यर्थः / कलिः कलिपुरुषः, हृदा स्वचेतसा, आह स्म उवाच / यद्यपि अधुना किमपि अनिष्टं कत न शक्नोमि, तथाऽपि रन्ध्रान्वेषी तिष्ठामि इति भावः / नलस्य पापच्छिद्रमन्विष्यन् ईष्र्युः कलिः तयोः प्रासादसमीपवर्तिनि अक्षवृक्षे अधिष्ठानं कृतवानिति प्राक् वर्णितमासीत् , तत्रस्थ एव स नलदमयन्त्योः आलापनं श्रुत्वा विरहेण दीनाननां भैमी विलोक्य एवमुक्तवानिति मन्तव्यम् // 8 // 1. 'विच्छेत्ता न चिरं वेति' इति 'प्रकाश' सम्मतः पाठः।