________________ द्वादशः सर्गः। उस सनातनी सरस्वतीने आसनको अलकृत किये ( बैठे ) हुए राजाको लक्षितकर, अमृतसरोवरोंसे अवगाहन को प्रारम्भकर बादमें अत्यन्त आर्द्र शरीर वाली ( सरस ) उत्पन्न दुई वाणियोंको उत्पन्न किया-अमृततुल्य सरस वाणी बोली // 4 // वृणीष्व वर्णेन सुवर्णकेतकीप्रसूनपर्णाहतुपर्णमादृतम् / निजामयोध्यामपि पावनीमयं भवन्मयो ध्यायति नावनीपतिः / / 5 / / वृणीष्वेति / वर्णेन अङ्गकान्त्या, सुवर्णकेतकीप्रसूनस्य पर्णात् दलात् , अपीति शेषः, आदृतं ततोऽप्यधिकस्पृहणीयम् , ऋतुपर्णम् ऋतुपर्णाख्यं नृपं, वृणीष्व / अयं अवनीपतिः पृथिवीशः, भवती एव भवन्मयस्त्वदात्मकः सन् , स्वार्थे मयटप्रत्ययः / सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः, पावनी पवित्रकारिणी, निजां स्वायत्तां, पुरु. षपरम्परागतामिति यावत्, अयोध्याम् अयोध्यानगरीमपि, मुक्तिदायिनी पुरीमपीति भावः, न ध्यायति न चिन्तयति; परमानन्दस्वरूपत्वात् तव प्राप्तिर्मुक्त्यपेक्षयाऽधि. कादरविषयेत्यतः त्वय्यधिकमनुरक्तोऽयम्, एनं वृणीष्वेति भावः // 5 // ___ रंगसे सुवर्णकी केतकीके पुष्पके दल ( पत्ते) की अपेक्षा (पा०-पुष्पके समान वर्ण होने के कारण ) आदर पाये हुए 'ऋतुपर्ण' को वरण करो, तुममें मन यह राजा अपनी पवित्र अयोध्याका भी स्मरण नहीं करता है // 5 // न पीयतां नाम चकोरजिह्वया कथञ्चिदेतन्मुखचन्द्रचन्द्रिका | इमां किमाचामयसे न चक्षुषी ? चिरं चकोरस्य भवन्मुखस्पृशी / / 6 / / नेति / एतन्मुखचन्द्रचन्द्रिका एतस्य ऋतुपर्णस्य, मुखमेव चन्द्रस्तस्य चन्द्रिका प्रसन्नतारूपा ज्योत्स्ना, चकोरस्य जिह्वया कथञ्चिदपि न पीयतां नाम चकोरजिह्वया सत्यचन्द्रचन्द्रिकैव पीयते इयन्तु अलीकमुखचन्द्रचन्द्रिकेति पातुमशक्यत्वादिति भावः, तथाऽपि भवन्मुखस्पृशी भवन्मुखत्तिनी, त्वञ्चक्षुरास्मना परिणते इत्यर्थः, 'स्पृशोऽनुदके क्विन्' चकोरस्थ चक्षुषो, कर्मणी, इमाम् एतन्मुखचन्द्रचन्द्रिकां, किं चिरं न आचामयसे ? न पाययसे? चक्षुषा एतन्मुखचन्द्रचन्द्रिका किमिति न पीयते ? किमित्येनं न पश्यसीत्यर्थः। अत्राचमेः प्रत्यवसानार्थत्वात् 'गतिबुद्धि-' इत्यादिना चक्षुषोरणिकत्तः कर्मत्वं निगरणचलनार्थेभ्यश्च' इति चमेणिचि परस्मैपदनियमात् , किन्तु 'संज्ञापूर्वको विधिरनित्यः' इति परिभाषया अत्र परस्मैपदं न भव. तीति, अत्र भवन्मुखस्पृशीः चकोरचतुषोः विषयनिगरणेन भैसीचकोरचक्षुषोः अभे. दप्रतीतेः भेदे अभेदलक्षणातिशयोक्तिरलङ्कारः॥६॥ ___ चकोरकी जिह्वा इस ( ऋतुपर्ण राजा ) के मुखरूपी चन्द्रकी चौदनी ( आह्लादक सोन्दर्य ) को किसी प्रकार पान न करे, किन्तु तुम्हारे मुखका स्पर्श करनेवाले ( तुम्हारे नेत्ररूपमें परिणत ) चकोरके नेत्रद्वयको इस ( 'ऋतुपर्ण' राजाके मुखचन्द्रकी चन्द्रिका) 1. 'वर्णा' इति पा०। 2. 'निरीयताम्' इति पा० /