________________ ऊनविंशः सर्गः। 1265 'युक्ते द्वे साम्प्रतं स्थाने' इत्यमरः। कुम्भसम्भवः अगस्यः यथा चुलुकेन जलधि पपौ, तथा अपरस्यापि कुम्भसम्भवस्य जलधिपानमुचितमेवेति भावः। रूपका. लङ्कारः॥ 62 // ____सुवर्णतुल्य कान्तिवाला इन्द्रप्रासाद (वैजयन्त ) का कलसरूप यह सूर्य पूर्वदिशामें कुङ्कुम-पुष्पोंकी शोभावाली ( पाठा०-कुङ्कुमतुल्य स्निग्ध शोभावाली ) पताकाओंके दुग्ध पीनेवाले अर्थात् अतिशय लघु ( = अभिनवतम ) अपत्यरूप (पाठा-समूह ) किरणोंसे चित्तको हरण कर रहा है। इस (सूर्य, पक्षा०-इन्द्रप्रासादके स्वर्णकलस) से उत्पन्न कान्तियोंको अन्धकार-समुद्रका पान करना उचित ही है। [ सूर्य अभी अभी उदित हुआ है अत एव उसकी किरणें कुङ्कुमपुष्पतुल्य अतिशय अरुणवर्ण इन्द्रप्रासादकी पताकाओंकी दुधमुहें सन्तानतुल्य अत्यन्त लाल-लाल हैं और यह सूर्य उस इन्द्रप्रासादका स्वर्ण कलस है, अतः उक्त स्वर्णकलसोत्पन्न इन किरणोंको अन्धकार-समुद्रका पान करना सर्वथा उचित ही हैं, क्योंकि कुम्भोत्पन्न अगस्त्य मुनिने भी समुद्रका पान किया था। पूर्वदिशामें स्वर्णकलसतुल्य सूर्यका उदय हो गया तथा उसकी अरुणवर्ण किरणें फैल रही हैं, अतः आप निद्रात्याग करें]॥ 62 // द्वित्रैरेव तमस्तमालगहनग्रासे दवीभावुकैरुझेरस्य सहस्रपत्रसदसि व्यश्राणि घस्रोत्सवः / घर्माणां रयचुम्बितं वितनुते तत् पिष्टपिष्टीकृत क्ष्मादिग्व्योमतमोऽघमोघमधुना मोघं निदाघद्यतिः // 63 // द्विवैरिति / तमः अन्धकारः एव, तमालगहनं तुल्यवर्णस्वात् तमालाख्यवृक्षाणां गभीरं वनम् , तस्य ग्रासे गिलने, दूरीकरणे इत्यर्थः। दवीभाबुकैः आरण्यवह्नीभवद्भिः / 'दवदावी वनारण्यवह्नी' इत्यमरः / अभूततद्भावे च्विः, 'अस्य च्वौ' इती. कारः। 'लषपत-' इत्यादिना उकज प्रत्ययः / अस्य निदाघद्यतेः, द्वौ वा यः वा द्वित्राः / 'संख्ययाऽव्यया-' इत्यादिना बहुव्रीहिः, 'बहुव्रीही संख्येये-' इति डच्स. मासान्तः / तैरेव द्वित्रिसंख्यकमात्रैरेव, उौः करैः। कतभिः। सहस्रपत्रसदसि कमलसभायाम् , पद्मसमूहे इत्यर्थः / यस्मात् घस्रोत्सवः दिनानन्दः, विकाशप्राप्तिजन्यमानन्दानुष्ठानमित्यर्थः / विश्राणि व्यश्राणितः, प्रदत्तः इत्यर्थः। श्रण दाने इत्यस्य कर्मणि चिण / तत् तस्मात् , द्विनिसंख्यककिरणरेव सर्वकार्यसाधनात् हेतोरित्यर्थः / निदाघद्युतिः सूर्यः, पिष्टपिष्टीकृतं पिष्टस्य चूर्णीकृततण्डुलादेः, पिष्टीकृतम् पुनः पेषण. वस्कृतम् , द्वित्रैरेव मयूखैः अन्धकारं दूरीकृतमपि पुनः मयूखान्तरैः अत्यर्थ दूरीकृतमित्यर्थः / मादिग्व्योमतमः पृथिवीककुब्गगनानाम् अन्धकारमेव, अघं पापम् , मालिन्यावहत्वादिति भावः / येन तादृशम् / 'पापं किल्विषकल्मषम् / कलुषं वृजि. नैनोऽधमहो दुरितदुष्कृतम्' इत्यमरः / रयचुम्बितं वेगव्याप्तम्, वेगेन प्रसरणशील.