________________ ऊनविंशः सर्गः। 1263 करता है, कबिराज श्रीहर्ष इसपर उत्प्रेक्षा करते हैं कि इस प्रातःकालमें 'कौ, कौ' कहता हुआ कौवा 'पाणिनीय महाभाष्यमें 'तात के स्थानी 'कौन-कौन हैं ?? ऐसा प्रश्न करता है और कोयल 'तुहि, तुहि' कहकर उत्तर देता है कि 'पाणिनीय महाभाष्यमें 'तात के स्थानी 'तु-हि, तु-हि' हैं। क्योंकि 'तुह्योस्तातङाशिष्यन्तरस्याम्' (पा० सू० 7 / 1135) से 'तात' के स्थानमें 'तु और हि' आदेश होते हैं / हे राजन् ! प्रातःकाल हो गया, कौवे तथा कोयल बोलने लगे; अतएव आप शीघ्र जागिये ] // 60 // दाक्षीपुत्रस्य तन्त्रे ध्रुवमयमभवत् कोऽप्यधीती कपोतः कण्ठे शब्दौघसिद्धिक्षतबहुकठिनीशेषभूषाऽनुयातः / सर्व विस्मृत्य दैवात् स्मृतिमुषसि गतां घोषयन् यो घुसंज्ञां प्राकसंस्कारेण सम्प्रत्यपि धुवति शिरः पट्टिकापाठनेन / / 61 // दाक्षीति / अयं परिदृश्यमानः, कः अपि अपरिज्ञातपूर्ववृत्तान्त इत्यर्थः। कपोतः पारावतः, दाक्षीपुत्रस्य दक्षगोत्रसञ्जातमातृकस्य दाक्षीनामकमातृगर्भजातस्य वा पाणिनेः, दक्षस्यापत्यम् 'अत इज्' इति इजि 'इतो मनुष्यजातेः' इति ङीष / तन्ने शास्त्रे व्याकरणे, ध्रुवं निश्चितमेव, अधोतम् अध्ययनम् अस्य अस्तीति अधीती दाक्षीपुत्रतन्त्राध्ययनकारी इत्यर्थः / 'इष्टादिभ्यश्च' इतीनिप्रत्ययः, 'क्तस्थेन विषयस्य कर्मण्युपसङ्ख्यानम्' इति सप्तमी / अभवत् अजायत / यः कपोतः, कण्ठे निजगलदेशे, शब्दोघेषु 'रामः रामौ रामाः' इत्यादि प्रातिपदिकसमूहेषु, सिद्धय शिक्षाला. भार्थम् , क्षता प्रस्तरफलकादौ पुनः पुनः लिखनेन क्षयं प्राप्ता, बही प्रभूता, या कठिनी खटी / 'कठिनी खटिकायामपि' इति मेदिनी। तस्याः शेषः अवशिष्टांशः, सः एव भूषा आभरणम् , तयाऽनुयातः अन्वितः, रूषितः सन् इत्यर्थः, इवेति शेषः, खटिकाचूर्णशेषरेखया कण्ठे अनुरञ्जितः सन्निवेत्यर्थः। कपोतविशेषस्य कण्ठे धवलरेखा भवति, तत्र खटिकाचूर्णानुरञ्जनत्वाध्यवसायो बोध्यः। सर्वम् अधीतं समस्तशास्त्रम् / विस्मृत्य तिर्यग्योनेः सम्बन्धात् विस्मृतो भूत्वा, पट्टिकापाठनेन पट्टिकायां प्रस्तरफलकादी, पाठनेन लिखितविषयस्य अध्यापनाजनितेन, प्राक्संस्का. रेण पूर्वतनवासनया, पूर्वाभ्यासवशेनेत्यर्थः / देवात् सहसा, स्मृति स्मरणविषयताम, गतां प्राप्ताम्, घुसंज्ञा 'दाधा वदा' इति सूत्रोक्तां घु इति संज्ञाम्, घोषयन 'घु' इति शब्देन उच्चैः उच्चारयन् , सम्प्रति अधुनाऽपि, उपसि प्रातःकाले, शिरः मस्तकम् , धुवति कम्पयति, इत्युत्प्रेक्षा / लोकेऽपि दृश्यते यत् कश्चित् विस्मृतस्य कस्यचित् विषयस्य स्मरणकाले मस्तकं कम्पयतीति // 61 // कण्ठमें शब्दसमूहकी सिद्धि के लिए घिसी हुई बहुत-सी खड़ियासे अवशिष्टांश ( अङ्गुलिमें लगे हुए रज ) रूपी भूषणसे युक्त यह ( प्रत्यक्ष दृश्यमान ) कोई कबूतर मानो 1. -पाठजेन' इति 'प्रकाश' सम्मतः पाठः /