SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ 1228 नैषधमहाकाव्यम् / सखियोंसे कराना असङ्गत्त नहीं है / इससे नलके द्वारा निर्दोष दमयन्तीका भविष्यमें त्याग करना सूचित होता है ] // 142 // (युगम् ) छुप्तपत्रविनिमीलितक्षुपात् कच्छपस्य धृतचापलात् पलात् / त्वत्सखीषु सरटाच्छिरोधुतः स्वं भियोऽभिदधतीषु वैभवम् // 143 / / त्वं मदीयविरहान्मया निजां भीतिमोरितवती रहः श्रुता। . नोज्झितास्मि भवतीं तदित्ययं व्याहरद्वरमसत्यकातरः / / 144 / / अथ युग्मेनाह, छुप्तेत्यादि / छुप्तेन स्पृष्टेन, स्पर्शमात्रेणेत्यर्थः / तुप्तेति कचित्पाठः / 'छुपस्पर्शे' अयं पकारान्तस्तौदादिकोऽनिटश्च / पत्रेषु पर्णेषु, यद्वा-छुप्तपत्रः स्पृष्टपर्ण एव, विनिमीलितः सङ्कुचितः, यः नुपः हस्वशाखशिफदवृक्षविशेषः, लज्जालुसंज्ञकक्षुद्रशाखामूलविशिष्टकृत इत्यर्थः, तस्मात् / 'हस्वशाखशिफः तुपः' इत्यमरः / निरिन्द्रियस्यापि सेन्द्रियवत् व्यवहारदर्शनेन भौतिकोऽयमिति त्रासा. दिति भावः / तथा तचापलात् पुनः पुनः कृतसङ्कोचविस्ताररूपचाञ्चल्यात् , कच्छपस्य कमठस्य, पलात् मांसात् , शुण्डारूपादिति यावत् / अस्थिवत् कठिनपदार्थमध्यात् सहसा कोमलमांसनिःसरणप्रवेशयोः अन्यत्र कुत्राप्यदर्शनजनितत्रासादिति भावः / तथा शिरोधुतः शिरो मस्तकं धुनोति कम्पयतीति तादृशात् सदा चालित. मस्तकात् , सरटात् कृकलासात् , तस्य आकारप्रकारयोरस्वाभाविकत्वदर्शनजनितभयादिति भावः / वाक्यत्रयेऽपि अहं बिभेमीति शेषः / त्वत्सखीषु तव सहचरीषु, रहो निर्जने, स्वं स्वकीयं, भियः भयस्य, वैभवं सम्पदम् , भयातिरेककारणमित्यर्थः। भभिदधतीषु वर्णयन्तीषु सतीषु, युष्माकं का कस्मात् बिभेषि ? इति परस्परालोच. नायां तव सखीषु एकेका उक्तरूपं व्याहरन्तोसु सतीषु इत्यर्थः / स्वमिति / मदीय. विरहात् मम विच्छेदात् , निजां स्वकीयाम् , भीतिं भयम् , ईरितवती उक्तवती, त्वं भवती, मया नलेन, श्रुता आकर्णिता, आर्यपुत्रविरहाशङ्का एव मां भापयति इति त्वदुक्तिः मया श्रतेत्यर्थः / तत् तस्मात् , तव भयस्मरणादित्यर्थः / भवती स्वाम् , न उज्झितास्मि न त्यचयामि / उज्झतेः लुटि मिप। अहमिति शेषः / असत्यकातरः अनृतभीतः, अयं नलः, इति इस्थम् , वरम् अपरित्यागरूपं वरम् , व्याहरत् अवोचत् / दमयन्तीं वरं ददौ इत्यर्थः // 143-144 // (किसी समय एक साथ बैठकर विश्रम्भपूर्वक परस्पर बातचीत करती हुई सखियोंमेंसे 'कौन किससे डरती है ? ऐसा प्रश्न करनेपर ) स्पर्शमात्रसे सङ्कुचित पत्तोंवाली छुईमुई (लजौनी ) नामक क्षुप ( औषधि-विशेष ) से ( 'मैं डरती हूं' ऐसा किसीने कहा ), स्वभावतः चञ्चल कच्छप-मांस ( लम्बे डण्डेके समान सुख ) से ( 'मैं डरती हूँ' ऐसा दूसरी सखी ने कहा ), शिरको कॅपाते रहनेवाले गिरगिटसे ( 'मैं डरती हूँ' ऐसा तीसरी सखीने
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy