SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ 742 नैषधमहाकाव्यम् / तत् कम्बुप्रतिबिम्बितं किमु ? शरत्पर्जन्यराजिश्रियः पर्यायः किमु ? दुग्धसिन्धुपयसां सर्वानुवादः किमुः ? / / 65 / / अस्येति / अस्य उर्वीरमणस्य भूपतेः सम्बन्धि, पर्वणि भवः. पार्वणः तादृशस्त्र विधोः राकाचन्द्रस्य, द्वैराज्यं द्वयो राज्ञोरिदं कर्म द्वैराज्यं राजद्वयसम्बन्धि कर्मेत्यर्थः चन्द्रद्वयसम्बन्धि धावल्यमिति भावः, द्विराजशब्दात् बहुव्रीह्यन्तात् ब्राह्मणादित्वात् ष्यप्रत्ययः, तत्र सज्ज सन्नद्धं, तत्कार्यकारकमित्यर्थः, पार्वणविधुसदृशमिति समदितार्थः, सर्वाङ्गे उज्ज्वलस्य धवलस्य, शर्वपर्बतस्य कैलासस्य, सितः सितिमा, धावल्यमित्यर्थः, 'गुणे शुक्लादयः पुंसि' इत्यमरः, तस्य श्रिया सम्पदा, यो गर्वस्तं निर्वासयति लुम्पतीति तन्निर्वासि, कैलासस्य शुभ्रताया अपि अधिकं शुभ्रमित्यर्थः, यत् यशः, तत् कम्बूनां शङ्खाना, प्रतिबिम्बितं प्रतिबिम्ब, प्रतिच्छाया इत्यर्थः, किमु ? किं वा शरत्पर्जन्यराजिश्रियः शरन्मेघावलिधावल्यसम्पदः, पर्यायो रूपान्तरं किमु ? अथवा दुग्धसिन्धोः क्षीराब्धेः, पयसां क्षीराणां, सर्वानुवादः सर्वस्यापि पुनरुक्तिः किमु ? कृत्स्नं तत् क्षीरमेवेदं किमित्यर्थः / उत्प्रेक्षात्रयस्य संसृष्टिः // 65 // ___ इस पृथ्वीपति ( मिथिलानरेश ) का पूर्णिमाचन्द्र के दो राजाओंके कर्ममें तत्पर अर्थात पूर्णिमाचन्द्र के समान और सम्पूर्ण अङ्गों ( भागों ) में श्वेत वर्ण कैलास पर्वतकी श्वेतकान्ति के गर्वको नष्ट करनेवाला अर्थात् कैलास पर्वतसे भी अधिक इवेत जो यश है; वह शलोंका प्रतिबिम्ब है क्या ? शरत्कालीन मेघ-समूहकी शोभा ( श्वेतिमा ) का पर्याय ( रूपान्तर ) है क्या ? और क्षीरसागर के जलका सर्वानुवाद ( पुनरुक्ति) है क्या ? / [इस मिथिलानरेशका यश चन्द्रादिके समान तथा श्वेत शङ्खका प्रतिबिम्ब, किसी शब्दके पर्यायवाची शब्दान्तरद्वारा कथनके समान शरत्कालीन मेघ-समूहकी श्वेतिमाका पर्याय तथा किसी वाक्यादिके प्रत्यक्षर अनुवादके समान क्षीरसमुद्रका सम्पूर्णरूपसे अनुवाद होनेसे उन शङ्ख आदिके समान श्वेत है। दूसरा भी दो राजकर्ममें स्थित व्यक्ति विपक्षीका निराकरण करता ही है / यह मिथिलानरेश महायशस्वी है ] / / 65 / / नित्रिंशत्रुटितारिवारण घटाकुम्भास्थिकूटावट. - स्थानस्थायुकमौक्तिकोत्करकिरः कैरस्य नायं करः। उन्नीतश्चतुरङ्गसैन्यसमरत्वङ्गत्तुरङ्गक्षुर क्षुण्णासु क्षितिषु क्षिपन्निव यशःक्षोणीजबीजब्रजम् ? / / 66 / / निस्त्रिंशेति / निर्गतः त्रिंशतोऽङ्गुलिभ्यः इति निस्त्रिंशः त्रिंशदगुल्यधिकः खड्गः इत्यर्थः, डचप्रकरणे 'सङ्ख्यायास्तत्पुरुषस्य-'इतिडच्-प्रत्ययः, तेन त्रुटितेषु खण्डितेषु अरिवारणघटाकुम्भेषु शत्रुगजसमूहकुम्भेषु, अस्थिकूटानाम् अस्थिसङ्घातानाम् अवटस्थानेषु गर्तप्रदेशेषु, स्थायुकाः स्थायिनः, 'लषपत-' इत्यादिना उकञ्-प्रत्ययः, तेषां मौक्तिकोत्कराणां मुक्तासमूहानां,किरतीति किरः क्षेपकः, 'इगुपधज्ञा-'इति कः, अस्य
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy