________________ नैषधमहाकाव्यम् द्वादशः सर्गः प्रियाह्रियाऽऽलम्ब्य विलम्बमाविला विलासिनः कुण्डिनमण्डनायितम् | समाजमाजग्मुरथो रथोत्तमाः तमासमुद्रादपरे परे नृपाः // 1 // अथास्मिन्नवसरे पुनरन्ये राजानः समायाता इत्याह-प्रियेति / अथो अनन्तरं 'मगलानन्तरारम्भप्रश्नकात्स्न्येष्वथो अथ' इत्यमरः। प्रियाभ्यः, स्वकान्ताभ्यः, या ही: लज्जा, तासामकृत्रिमानुरागे कपटदाक्षिण्यप्रदर्शन मिति यावत् , तया विलम्बम् आलम्ब्य आविलाः कलुषाः, आलोडितहृदया इत्यर्थः, व्यग्राः इति यावत् , विला. सिनो विलसनशीलाः, 'वो कषलसकत्थसम्भ-' इति घिणुन्-प्रत्ययः रथैरुत्तमाः रथो. नृपाः आसमुद्रात समुद्रपर्यन्तात् 'अपादानात्' कुण्डिनस्य कुण्डिन नामनगरस्य, मण्डनायितम् अलङ्कारभूतं, मण्डन शब्दादाचारक्यङन्तात् कर्तरि क्तः, तं समाज राजसभाम्, आजग्मुः आपुः / अत्र विलाविलेल्यादौ माजमाजेत्यादौ च नियमेन सकृत् व्यञ्जनयुग्मावृत्या छेकानुप्रासः, अन्यत्रानियमात् वृत्यनुप्रासः इत्युभयोः संसृष्टिः। 'सङ्ख्यानियमे पूर्व छेकानुप्रासः, अन्यथा वृत्त्यनुप्रासः' इति लक्षणात् // 1 // अनन्तर अपनी प्रियाओं के विषयमें लज्जासे विलम्ब होनेपर व्याकुल, विलासशोळ तथा उत्तम रथवाले दूसरे-दूसरे राजा कुण्डिनपुरो ( भोमकी राजधानी ) का भूषणभूत उस राजसमाज अर्थात् स्वयंवर मण्डपमें समुद्र तक (बहुत दूर-दूर ) से आये। [ अपनी प्रियाओंमें अनुकूलता धारण करनेसे उन राजाओंको स्वयंवर में पहुंचने में विलम्ब हो रहा था फिर भी उत्तम रथवाले होनेसे ठीक समयपर ही वे स्वयंवर में पहुंच गये ] // 1 // ततः स भैम्या ववृते वृते नृपैर्विनिःश्वसद्भिः सदसि स्वयंवरः। चिरागतैस्तर्किततद्विरागितैः स्फुरद्भिरानन्दमहार्णवैर्नवैः॥२॥ तत इति / ततो राजान्तरागमनानन्तरं तर्किता तद्विरागिता भैमीवैराग्यं यस्तैनिश्चितभैम्यपरागैः, अत एव विनिःश्वसनिः विषादात् दीर्घ निःश्वसद्भिः, चिरा. गतैः पूर्वागतः, नृपः, तथा स्फुरनिः स्फूर्तिमापधमानः, हर्षाधिक्यात् प्रसन्न मुखाका. ररित्यर्थः, आनन्दमहार्णवः यतः पूर्वागता नृपा न वृताः, ततः समागतानस्मान दमयन्ती नियतं वरिष्यतीति निश्चित्य परमानन्दभरितः, नवैः तत्कालागतः, नृपैसा पूर्ण, सदसि सः प्रकृतः, स्वयंवरः ववृते प्रवृत्तः॥२॥