________________ षोडशः सर्गः। 1017 तडागकल्लोल इवानिलं तटाद्धृताऽऽनतिाववृते विदर्भराट् / / 116 / / निजादिति / नलम् अनुवज्य अनुसृत्य, निवृत्ती प्रत्यावर्तनसमये, चटु चाटु, प्रियवाक्यमित्यर्थः, लपति कथयतीति चटुलापः तस्य भावः तत्तां चाटुभाषिता, गतः प्राप्तः, मनोहरवाक्यवादी इत्यर्थः, 'कर्मण्यण' इति अणप्रत्ययः। सः विदर्भराट भीमः, ता स्वीकृता, आनतिः नलनमस्कारः येन तादृशः सन् , अनिलं वायुम् , अनुव्रज्य अनुयाय, चटुलाः चञ्चलाः, आपः जलानि यस्य तस्य भावः तत्तां चलज. लत्वं, गतः प्राप्तः, वातेनान्दोलिताप इत्यर्थः, 'ऋकपूर-' इत्यादिना समासान्तः / तडागस्य सरोवरस्य, कल्लोलः महोर्मिः 'अथोर्मिषु / महत्सूल्लोलकल्लोलौ' इत्यमरः, मृता प्राप्ता, आनतिस्तटाघातजन्यनमनं येन तादृशः सन् , तटात् तीरप्रदेशादिव, निजात् स्वकीयात् , मण्डलावधेः राष्ट्रसीमान्तात् , व्याववृते प्रतिनिवृत्तः // 16 // __ नलका अनुगमनकर लौटते समय प्रिय भाषण तथा नमस्कार करनेवाले वे विदर्भराज (पाठा०-विराटराज भीम ) राज्यकी सीमासे उस प्रकार लौट आये जिस प्रकार सरोवरका तरङ्ग वायुका अनुगमनकर लौटते समय चञ्चल जलयुक्त हो कर तीर (किनारे) से लौट आता है। [ राजा भोम नलको अपने राज्यकी सीमातक पहुंचाकर वापस लौट आये] // 116 // पिताऽऽत्मनः पुण्यमनापदः क्षमा धनं मनस्तुष्टिरथाखिलं नलः / अतः परं पुत्रि ! न कोऽपि तेऽहमित्युदरेष व्यसृजनिजौरसीम् / / 117 / / पितेति / पुत्रि ! हे वत्से ! आत्मनः तव, पुण्यं सुकृतमेव, पिता जनकः, हितकारित्वादहितनिवारकत्वाच्चेति भावः। क्षमाः सहिष्णुताः, अनापदः न विद्यन्ते आपदो याभ्यस्ताः आपन्निवारिका इत्यर्थः, मनस्तुष्टिः सन्तोषः, अलोभित्वमेव इत्यर्थः, धनं वित्तम् , अथ अनन्तरम्, एतत्परं किं बहु वच्मि इत्यर्थः, अखिलम् उक्तम् अनुक्तञ्च सर्वमेव, नलः नलः एव तव सर्वस्वम् अभीष्टदायित्वादिति भावः / अतः अस्मात् नलात् , परम् अन्यत् , न, अस्तीति शेषः, अहन्तु ते तव, कोऽपि यः कश्चिदेवेत्यर्थः / यद्वा-अतः परम् अत ऊर्ध्वम्, अद्यारभ्येत्यर्थः, अहं ते कोऽपि न मया सह तव कोऽपि सम्बन्धो नास्तीत्यर्थः, इति इत्थम् , उक्त्वेति शेषः / एषः भीमः, उदश्रुः उद्बाष्पः साश्रुनेत्रः सन् इत्यर्थः। निजाम् आत्मीयाम् उरसा निर्मितां 'पुत्रीम् 'उरसोऽण च' इत्यणप्रत्ययः, 'संज्ञाधिकारादभिधेयनियमः' इति काशिका व्यसृजद् विससर्ज, प्रेषयामासेत्यर्थः // 117 // 'हे पुत्रि ( दमयन्ति ) ! अपना अर्थात् तुम्हारा पुण्य (ही हित करने तथा अहितका निवारण करनेसे ) पिता है, क्षमा ( सहनशीलता ही) आपत्तियोंका निवारण करनेवाली है, सन्तोष ( अलोम ही ) धन है; और सब (पूर्वकथित तथा अकथित-सब कुछ ) नल (ही ) हैं / इस ( नल ) से भिन्न (तुम्हारा कोई ) नहीं है, मैं तुम्हारा कोई हूं अर्थात् 1. 'वराटराट्' इति 'प्रकाश' सम्मतः पाठः /