________________ 904 नैषधमहाकाव्यम् / मुकुलैः, तां कालिन्दी, जहास उपहसितवतीवेत्यर्थः / व्यञ्जकाप्रयोगात् गम्योत्प्रेक्षा। यमुना बलरामस्य हलाकर्षणजन्यभङ्गन भङ्गुरा पुष्पशून्या च, किन्तु भैमीकचच्छटा स्वभाववका पुष्पार्चिता चेति उपहासो युक्त इति भावः // 31 // बलरामके हलसे आकृष्ट के समान ( अत एव ) सघन ( अत्यधिक ) तरङ्गोंसे टेढो जो यमुना नदी शोभती है, उसको उस दमयन्तीके टेढ़े बाल उस ( केशरचनाके ) समय करुणनामक वृक्ष-विशेषके पुष्पोंसे हंस रहे थे अर्थात् कृष्णवर्णवाली कुटिल तरङ्गयुक्त यमुनासे भी अधिक शोभते थे। [ यमुना नदी बलरामके हलसे आकृष्ट होनेपर काले काले कुटिल तरङ्गोंवाली होकर शोमती थी, फिर भो पुष्पोंसे रहित थी, अतः काले-काले तथा स्वतः कुटिल एवं करुण-पुष्पयुक्त बालोंका अन्यकृत कार्यसे शोभनेवाली यमुनाको हँसना उचित ही है ] // 31 // धृतैतया हाटकपट्टिकाऽलिके बभूव केशाम्बुदविद्युदेव सा / मुखेन्दुसम्बन्धवशात् सुधाजुषः स्थिरत्वमूहे नियतं तदायुषः / / 32 / / तेति / एतया भैम्या, अलिके ललाटे 'ललाटमलिकं गोधिः' इत्यमरः / तासा अतीव रम्य दर्शना, हाटकपट्टिका सुवर्णपट्टः, केश एव अम्बुदः मेघः, तस्य विद्यदेव बभूव / विद्युच्चेत् कथं स्थिरत्वम् ? तत्राह-मुखेन्दुसम्बन्धवशात् मुखचन्द्रेण सह संस्पर्शात् , सुधाजुषः अमृतपायिनः, तस्याः विद्युतः सम्बन्विनः, आयुषः जीवित. कालस्य, नियतं स्थिरत्वं चिराय स्थायित्वम् , ऊहे उत्प्रे अमृतपानात् विद्यदायुषः स्थिरत्वकथनेन विद्यतोऽपि स्थिरत्वमिति भावः / 'उपसदस्यत्यूह्योति वाच्यम्' इत्यात्मनेपदम् // 32 // इस ( दमयन्ती ) के द्वारा ललाटमें धारणकी गयी सुवर्णपट्टिका ( ललाटभूषण) केशरूपी मेघको बिजली ही हो गयी। (विजलीके स्थिरप्रभा होनेका यह कारण है कि( दमयन्तीके ) मुखरूपी चन्द्रमाके अमृतका सेवन (भोजन ) करनेवाली उस (बिजली) की आयु अवश्य ही स्थिर (चिरस्थायी ) हो गयी-ऐसा मैं तर्क करता हूँ। [चन्द्रामृत पान करके बिजलीकी आयु (प्रभा ) का स्थिर होना उचित ही है ] // 32 // ललाटिकासीमनि चूर्णकुन्तला बभुस्तमां भीमनरेन्द्रजन्मनः / मनःशिलाचित्रकदीपसम्भवा भ्रमोभृतः कजलधूमवल्लयः / / 33 / / ललाटिकेति / भीमनरेन्द्रात् जन्म यस्याः तस्याः भैम्याः, 'अवो बहुव्रोहियंधिकरणो जन्माद्युत्तरपदे' इति वामनः / ललाटिका ललाटस्य अलङ्कारः, 'कललाटात् कनलङ्कारे' इति कन्प्रत्ययः। तस्याः सोमनि प्रान्ते, चूर्गकुन्तलाः अलकाः, मनःशिलायाः धातुविशेषस्य, चित्रकं तिलकं, स एव दोपः प्रदोपः, मनःशिलायाः पिङ्गलवर्णत्वात तथा नलस्य कामोद्दोपकत्वात् चित्रके दीपत्वारोपणमिति भावः। ततः 1. 'यदायुषः' इति पाठान्तरम्।