________________ द्वादशः सर्गः। 717 इतोऽपीति हे / भैमि ! उर्वीवलयोर्वशी भूलोकाप्सरोविशेषा, स्वं शुद्धन अनवद्येन, गुणेन सौन्दर्यगुणेन मौा च, एकेनैवेति भावः, तमेनं महेन्द्रनाथं, निर्भरं नितान्तं, वशं विधाय वशीकृत्य, धनुर्बाणगुणः त्रिभिः साधनभूतैः, नृपान् वशंवदान् वश्यान् , 'प्रियवशे वदेः खच' कुर्वतः कुर्वाणात् , इतोऽस्मादपि, महेन्द्रनाथादपीत्यर्थः, 'पञ्चमी' किं न वीरयसे ? न पराक्रमसे ? 'वीरशूरविक्रान्ती' इति चौरादिकाल्लट , व्यतिरेकालङ्कारः॥ 27 // भूतलकी उर्वशी तुम शुद्ध गुण ( सौन्दर्य, पक्षा०--धनुषकी डोरी ) से प्रसिद्ध इस ( महेन्द्रनाथ ) को अत्यन्त वशमें करके धनुष, बाण और गुण ( धनुषकी डोरी ); इन तीन साधनोंले राजाओंको वश में करते हुए इस ( महेन्द्रनाथ ) से भी वीर नहीं हो क्या ? अर्थात् अवश्य हो ( अथवा-क्यों नहीं वीर बनती हो ) अर्थात तुम्हें वीर बनना चाहिये [यह राजा तो धनुष, बाण तथा गुण ( मौर्वी )- इन तीन साधनोंसे शत्रु राजाओंको वशमें करके वीर हो रहा है, और ऐसे वीर राजाको तुम केवल गुण ( सौन्दर्य गुण, पक्षा०-धनुष तथा बाणसे रहित केवल मौर्वी ) से ही वशमें कर रही हो; अतएव इससे अधिक तुम ही वीर हो तीन साधनों के द्वारा काम करनेवालेको अपेक्षा एक साधनके द्वारा वही काम करनेवाले व्यक्तिको ही श्रेष्ठ मानना उचित है ] // 27 // एतद्भीतारिनारी गिरिबिलविगलद्वासरा निःसरन्ती स्वक्रीडाहंसमोहअहिलशिशुभृशप्रार्थितोन्निद्रचन्द्रा / आक्रन्दत् भूरि यत्तन्नयनजलमिलच्चन्द्रहंसानुबिम्ब प्रत्यासत्तिप्रहृष्यत्तनयविहसितैराश्वसीन्न्यश्वसीच्च // 28 // एतदिति / एतस्मात् भीतस्य अरेर्नारी गिरिबिलेषु पर्वतगुहासु, विगलन् वासरो यस्याः सा, तत्रैव नीतदिवसेत्यर्थः, निःसरन्ती सायं बिलाद्वहिः निष्कामन्ती, स्वक्रीडाहंसमोहेन मदीयः क्रीडाहंसोऽयमिति भ्रान्त्या, ग्रह आग्रहःतद्वान् अहिलः, पिच्छ।दित्वादिलच प्रत्ययः, तेन साग्रहेण, शिशुना बालकेन, भृशम् अत्यर्थ, प्रार्थितो धृत्वा दीयतामिति याचितः, उन्निद्रः परिपूर्ण इत्यर्थः, चन्द्रो यस्याः सा सती, भूरि भूयिष्टं यथा तथा, आक्रन्दत् क्रन्दितवती, यत् यस्मादाक्रन्दनात् , तस्या मातुः, नयनजले मिलन् सङ्क्रामन् , चन्द्र एव हंसः तस्य योऽनुबिम्बः, प्रतिबिम्बः, तस्य प्रत्यासत्या समीपप्राप्त्या, प्रहृष्यतः तनयस्य विहसितः मध्यमहासैः किञ्चिद्वच्चहास्यैरित्यर्थः, 'मध्यमः स्याद् विहसितम्' इत्यमरः, आश्वसीत् तस्याग्रहशान्त्या आश्वासं प्राप्तवती, किन्तु न्यश्वसीच्च शोकेन दीर्घनिश्वासं परित्यक्तवती च इति दुर्दशानुभवसूचकोक्तिः / 'मयन्तक्षणश्वस-' इत्यादिना वृद्धिप्रतिषेधः, अन्न नारोशिशोः चन्द्रबिम्बे तत्प्रतिबिम्बे च हंसगतसादृश्यात् हंसभ्रान्तिनिबन्धनात् भ्रान्तिमद. लङ्कारः॥२८॥