________________ 892 नैषधमहाकाव्यम् / अथ ते सर्वे दमयन्ती प्रति आहुः, देवीति / देवी सरस्वती च, ते देवाश्च, जगदुः, जगदुत्तमाङ्गरत्नाय त्रैलोक्यशिरोमणिभूतायै, 'उत्तमाङ्गं शिरः शीर्षम्' इत्यमरः / ते तुभ्यं, कं काम्यते इति कामम् ईप्सितं, कर्मणि घञ् / वितराम ? प्रयच्छाम ? सम्प्रश्ने लोट् / कथय / पत्यो व्रतं नियमः, अस्खालित्वरूपमित्यर्थः, यस्याः, तादृशया त्वया किञ्चित् किमपि, दुरापं दुष्प्रापं, न हि नैव, अस्तीति शेषः, पातिव्रत्यतेजसोऽप्रतिहतशक्तिकत्वादिति भावः, तथाऽपि यः पापी; तव व्रतं पत्यौ अस्खालित्वरूपं, तस्य लोपं नाशम्, इच्छः अभिलाषुकः, / 'बिन्दुरिच्छुः' इत्युप्रत्ययान्तो निपातः, 'न लोका-' इत्यादिना षष्ठीप्रतिषेधात् कर्मणि द्वितीया / स भस्मास्तु भस्मीभवतु, बतेति खेदे; तथा चास्मद्वरप्रसादादेव तत्प्रतीकारात् तव ततो भयं न भविष्यतीति भावः। एतच्चोत्तरत्र वनमध्ये अजगरग्रस्तां दमयन्तीमजगरादुन्मोच्य पुनस्तां कामयमानस्य पापिष्ठस्य व्याधस्य वधे फलिष्यतीति भारती कथा अत्र अनुसन्धेया // 9 // ___ सरस्वती देवी तथा वे ( इन्द्रादि चारों देव ) बोले कि-(हे दमयन्ति !) संसारके शिरोभूषण तुमको हमलोग किस मनोरथको दें अर्थात् पूरा करें क्योंकि पतिव्रता तुमको कोई वस्तु दुर्लभ नहीं है, तथापि जो कोई तुम्हारे व्रत ( पातिव्रत्य ) को भङ्ग ( नष्ट ) करना चाहे वह भस्म हो जाय, खेद है [ इस वरदानसे कविने भविष्यमें होनेवाली कथाका भी सङ्केत कर दिया है [ // 90 // कूटकायमपहाय नो वपुर्बिभ्रतस्त्वमसि वीक्ष्य विस्मिता | आप्तुमाकृतिमतो मनीषितां विद्यया हृदि तवाप्युदीयताम् / / 91 / / अथ वरान्तरञ्च, कूटेति / कूटकायं कपटदेहं, नलाकारमिति यावत्, अपहाय वपुः निजविग्रह, बिभ्रतः बिभ्राणान् , नः अस्मान् , वीक्ष्य त्वं विस्मिता विस्मया. विष्टा, असि, तेन, स्वेच्छया रूपान्तरपरिग्रह-परिहारकामा त्वमिति प्रतिभासीति भावः, अतः हेतोः, मनीषिताम् अभिलषिताम्, आकृति शरीरम, आप्तं तवापि हृदि हृदये, विद्यया कामरूपसम्पादकविद्यया, उदीयताम् उद्भयताम्, उत्पूर्वादिणो भावे लोट् // 91 // ___ कपटशरीर ( कृत्रिम नलशरीर ) को छोड़कर ( अपना ) शरीर धारण किये हुए हम लोगोंको देखकर तुम आश्चर्यित हो गयी हो, ( अतः ) अभिलषित शरीर पाने के लिए तुम्हारे भी ( 'अपि' शब्दसे नलके भी ) हृदयमें विद्या (शरीर-परिवर्तिनी मन्त्रादिशक्ति) प्रादुर्भूत होवे // 91 // इत्थं वितीर्य वरमम्बरमाश्रयन्सु तेषु क्षणादुदलसद्विपुलः प्रणादः / उत्तिष्ठतां परिजनालपनैर्नृपाणां स्वर्वासिवृन्दहतदुन्दुभिनादसान्द्रः / / 12 / / इत्यमिति / तेषु देवेषु, इत्थं वरं वितीर्य इत्या, अम्बरम भाकाशम, आश्रयस्सु सासु, उत्तिष्ठताम् भासनेभ्यः उच्यता, नृपाणां प्रणाः हस्थध्वनिः 'प्रणादस्तु