________________ चतुर्दशः सर्गः। 865 अनादरजन्य कोप) के समान यमराजने लोहदण्डयुक्त, लाल नेत्रोंसे क्रूर तथा अन्धकारको फैलाते ( या-अतिशय अधिक काला होनेसे अन्धकारको भी फेंकते अर्थात् तिरस्कार करते ) हुए शरीरको धारण किया। [यम भी अपना रूप धारण कर प्रकट हो गये। क्रोधयुक्त मनुष्य भी दण्डयुक्त, लाल नेत्रोंसे क्रूर एवं काला-सा बन जाता है ] // 62 // दृग्गोचरोऽभूदथ चित्रगुप्तः कायस्थ उच्चैर्गुण एतदीयः / ऊर्ध्वश्च पत्रस्य मषीद एको मषेदधच्चोपरि पत्रमन्यः // 63 / / दृगिति / अथ यमस्य स्वरूपप्रकाशानन्तरम् एतदीयः कालसम्बन्धी, उच्चैः महान् , गुणः प्रधानशेषभूतः, चित्रगुप्तः चित्रगुप्ताख्यः, कायस्थः लेखकः, तदाख्यजातिविशेष इत्यर्थः, 'लेखकः स्याल्लिपिकरः कायस्थोऽक्षरजीविकः' इति हलायुधः / दृग्गोचरः दृश्यः, अभूत् ; अन्यत्र-चित्रं यथा तथा गुप्तः पूर्व निगूहितः, कायस्थः कायनिष्ठः, एतदीयः कालसम्बन्धी, उच्चैः महान् , गुणः नीलगुणः, दृग्गोचरः अभूत्। एकः चस्त्वर्थः, चित्रगुप्तनीलगुणयोः एकः चित्रगुप्तस्तु, पत्रस्य ऊर्ध्वम् उपरितले, मषीं ददातीति मषीदः मषीमयलिपिकरः, लेखक इत्यर्थः, अन्यश्च पूर्ववच्चार्थः, अन्यः नीलगुणस्तु, मषेः मषिद्रव्यस्य, 'कृदिकारादक्तिनः' इति ङीषो विकल्पादुभयथा प्रयोगः, उपरि, पत्रं मषेरपि अहं काल एवेति पत्रालम्बनं, दधत् दधानः, 'नाभ्यस्ताच्छतुः' इति नुमोऽभावः, अभूत् , मषितोऽपि अधिको नीलिमेत्यर्थः। अत्र मषेरुपरि पत्रमिति प्रतीतेराभासीकरणात विरोधाभासोऽलङ्कारः // 63 // इसके बाद इस ( यम ) का कायस्थ-जातीय श्रेष्ठ गुणवाला चित्रगुप्त नामका लेखक। पक्षा०-विचित्र रूपसे गुप्त एवं शरीरमें वर्तमान श्रेष्ठगुण अर्थात् कालिमा) प्रकट हुआ; इन ( चित्रगुप्त तथा कालिमा गुण ) में से एक (चित्रगुप्त नामका लेखक ) तो कागज के ऊपर स्याही देने अर्थात् लिखनेवाला था और दूसरा ( कालिमा गुण) स्याहोके ऊपर पत्रालम्बन धारण करने ( पाठा०-देने ) वाला अर्थात् स्याहीसे भी अधिक काला था। [ यमने अत्यन्त कृष्णवर्ण शरीर धारणकर लिया ] // 63 // तस्यां मनोबन्धविमोचनस्य कृतस्य तत्कालमिव प्रचेताः। पाशं दधानः करबद्धवासं विभुर्बभावाप्यमवाप्य देहम् / / 64 // तस्यामिति / विभुः प्रभुः, प्रचेताः वरुणः, तत्कालं तस्मिन् काले, नलवरणकाले इत्यर्थः, अत्यन्तसंयोगे द्वितीया, तस्यां दमयन्त्यां विषये, कृतस्य विहितस्य, मनोबन्धविमोचनस्य चित्तबन्धनोन्मोचनस्य, पाशेन मनः संयम्य भैम्यां पुरा निक्षिप्तवान् , ततश्च नले वृते सति तन् बन्धनं तत्क्षणमेव प्रचेता उन्मुमोचेति तद्बन्धन 1. 'मषेर्ददच्चोपरि' इति पाठान्तरम् /