________________ 846 . नैषधमहाकाव्यम् / इति एवं, नलस्य अर्द्धनाम्नि नाम्नोऽर्द्ध, अर्द्धनामधेये इत्यर्थः, 'अर्द्ध नपुंसकम्' इत्येकदेशिसमासः, दमयन्त्या उच्चारित इति भावः, गृहीते एव प्रविष्टे सत्येव कर्णगोचरीभूते एवेति यावत् , सा भैमी, बृपया निपीता ग्रस्ता सती, 'ल' इति शेषा ोचारणेऽसमर्था सतीत्यर्थः, अङ्गुलिभिः अङ्गुलीः स्पृशन्ती परामृशन्ती, मोटयन्ती त्यर्थो वा, लज्जासङ्कोचसूचकभावोऽयम्; दूरम् अत्यन्तं, शिरः नमयाञ्चकार ननाम, लजातिरेकात् कथननैराश्याच्च इतिकर्तव्यतामूढा केवलं नता एव स्थितेत्यर्थः / यद्वा-देव्याः सरस्वत्याः सम्बन्धिनि, देव्या' इति तृतीयान्तपदो (दं) वा तथात्वे देव्या, उच्चारिते इति शेषः, 'न' इति नलार्द्धनाम्नि श्रुतौ कणे, दमयन्त्या इति भावः, अन्यत् समानम्; लोके यथा कश्चित् गुरुजनसमीपे किमपि वक्तुकामोऽपि लज्जासङ्कोचवशात् वक्तुमसमर्थः सन् शिरोनमनपूर्वकम् अङ्गुलिभिरङ्गुलीः मोटयति तद्वदिति भावः // 30 // सरस्वती देवीके कानमें 'न' ऐसा ( केवल एक अक्षर ) नलके आधे नामको ग्रहण करने ( सुनने ) पर ( अथवा-"नामको ही ग्रहण करने पर ) लज्जासे व्याप्त उस ( दमयन्ती ) ने ( नलके नामका द्वितीय अक्षर 'ल' को उच्चारण करने में असमर्थ होकर) बादमें अपनी अङ्गुलियों से अपनी अङ्गुलियों ( अथवा-अपनी अङ्गुलियोंसे सरस्वती देवीकी अङ्गुलियों) को ममोड़ती ( या दबाती) हुई शिरको अत्यन्त झुका लिया। ( पाठा०-देवी द्वारा कहे गये नलके नामके प्रथमाक्षर 'न' को अपने ( दमयन्तीके ) कानसे ग्रहण करने अर्थात् सुननेपर लज्जासे...... ) / [ अधिक लज्जाके कारण अपने भावको कहनेमें असमर्थ होनेसे अङ्गुलियोंसे अङ्गुलियोंको ममोड़ती ( या दबाती) हुई दमयन्तीने अपने मस्तकको नीचे कर लिया। सभी व्यक्ति लज्जाके कारण अपनी अभिलाषाको प्रकट नहीं कर सकने पर अङ्गुलियोंको ममोड़ते और मस्तकको नीचे झुका लेते हैं ] / 30 // करे विधृत्येश्वरया गिरा सा पान्था पथीन्द्रस्य कृता विहस्य / वामेति नामैव बभाज सार्थ पुरन्ध्रिसाधारणसंविभागम् // 31 / / करे इति / सा भैमी, गिराम् इश्वरया वाग्देवतया, 'स्थेशभासपिसकसो वरच, विहस्य करे विकृत्य तां करे गृहीत्वा, इन्द्रस्य पथि, पन्थानं गच्छति नित्यमिति पान्था नित्यपथिकी, 'पन्थो ण नित्यम्' इति ण-प्रत्यये पथः पन्थादेशे च टाप, कृता इन्द्रसमीपं नीता सतीत्यर्थः, पुरन्ध्रीणां सर्वयोषितां, साधारणः संविभागः सर्वस्त्रीनामत्वेन संविभज्य अहणं यस्य तत् तादृशं सर्वयोषिद्वाचकमित्यर्थः, वामा इति नामैव सार्थ प्रतीपत्वेनार्थवत् यथा तथा, बभाज बभार, प्रतिकूला एव अभूदित्यर्थः, देव्या इन्द्रवरणमुद्दिश्य नीयमाना भैमी तत्प्रतिकूलाचारिणी अभूदिति निष्कर्षः / 1. एवं तृतीयान्तपाठाभ्युपगमे त्वत्तः श्रुतं नेति (14 // 33.) इति श्लोकस्थत्वत्तः इत्येतत्पदस्वारस्यविरोधोऽत इदं पाठान्तरमुपेक्ष्यम् / . ..