________________ चतुर्दशः सर्गः। 839 नले मिल सङ्गच्छस्व, इति संज्ञानदानात् संज्ञाकरणात् , आह्वानसूचकचक्षुश्चेष्टाविशेपकरणादित्यर्थः, भाषमाणं ब्रुवाणमिव स्थितमित्युत्प्रेक्षा, निमेषम् अवैक्षत, इदमपरं चिह्नमिति भावः // 17 // सामने स्थित उस ( दमयन्ती ) ने देवोंमें निमेष ( पलकका गिरना ) नहीं देखा तथा राजा नल में 'तुम यहां आकर ( मुझसे ) मिलो' ऐसे संकेतसे भाषण करते हुएके समान निमेषको देखा / / 17 // नाबुद्ध बाला विबुधेषु तेषु क्षोदं क्षितेरैक्षत नैषधे तु | पत्ये सृजन्त्याः परिरम्भमस्याः सम्भूतसम्भेदमसंशयं सा // 18 // नेति / सा बाला भैमी, तेषु विबुधेषु देवेषु क्षितेः क्षोदं रजः, धूलिमित्यर्थः, न अबुद्ध न ऐक्षतेत्यर्थः, तैजसेषु देवेषु भूस्पर्शाभावेन तदसक्रमादिति भावः; वुध्यतेलुङि तङि 'झलो झलि' इति सिचः सलोपः नैषधे नले तु, पत्ये स्वभत्रे, पृथिवीस्वामिने नलाय इत्यर्थः, परिरम्भं सृजन्त्याः आलिङ्गनंददत्याः, अस्याः क्षितेः सकाशात् , असंशयं यथा तथा, सम्भूतसम्भेदं सञ्जातसंश्लेषम् , असंशयमिति पदम उत्प्रेक्षावाचकम्, आलिङ्गनसङक्रान्तमिव स्थितमित्यर्थः, क्षोदमिति पूर्वेणान्वयः, ऐक्षत; रजःसम्भेदोऽपरं चिह्नमिति भावः // 18 // वाला ( दमयन्ती ) ने उन देवोंमें पृथ्वीको धूलिको नहीं देखा तथा नलमें पति ( नल ) के वास्ते मानो आलिङ्गन करती हुई ( पृथ्वीके ) उत्पन्न संसर्गको देख। // 18 // स्वेदः स्वदेहस्य वियोगतापं निर्वापयिष्यन्निव संसिसृक्षोः / हीराङ्करश्चारुणि हेमनीव नले तयाऽऽलोकि न दैवतेषु // 19 // स्वेद इति / तया दमयन्त्या, संसिसृक्षोः संस्रष्ट नलेन सङ्गन्तुमिच्छोः, स्वदेहस्य वियोगतापं नलविरहसन्तापं, निर्वापयिष्यन् शमयिष्यन् इव उद्गतः इत्युत्प्रेक्षा; स्वेदः चारुणि शुद्धिमति, श्यामिकारहिते इति भावः, हेमनि सुवर्णे, हीराङ्करः वज्रा. ङ्करः इव, 'वज्रो हीरश्च कथ्यते' इति हलायुधः / नले आलोकि दृष्टः, दैवतेषु सुरेषु न आलोकि इति पूर्वेणान्वयः / अत्र प्रथमार्दै उत्प्रेक्षा, द्वितीयाः च हेम्नो नलशरीरतु. ल्यत्वात् , हीराङ्करस्य च स्वेदतुल्यत्वात् तयोः सम्बन्धस्य च प्रसिद्धत्वादुपमालङ्कार इत्यनयोः संसृष्टिः // 19 // उस ( दमयन्ती ) ने नलमें ( नलका ) आलिङ्गनेच्छुक अपने ( दमयन्तीके ) शरीरके ( अथवा-३मयन्तीका आलिङ्गनेच्छुक अपने ( नलके ) शरीरके ) ( विरहजन्य ) सन्तापको भविष्यमें शान्त करनेवाले पसीनेकी अत्युत्तम सुवर्णमें हीरेके अङ्कुर (जड़े गये होरे ) के समान देखा तथा देवों में नहीं देखा। [ प्रथम पक्षमें नलके सुवर्णवत् गौर वर्ण शरीर में हीरेके समान स्वच्छ चमकते हुए पसीने की बूंदोंको देखकर दमयन्तीको विश्वास हो गया कि अब नलको पाकर उनके आलिङ्गनसे मेरा शरीरसन्ताप दूर हो जायेगा। दूसरे पक्षमें