________________ 830 नैषधमहाकाव्यम् / यस्य हृल्लेखयदण्लासेषु' इति हृदादेशः, नदिमा शब्दार्थमाधुर्यम् , अन्यत्र-सौकु. मार्य, तेनाभिरामैः, आमोदयन्तीत्यामोदिनः 'मुदेय॑न्तात्ताच्छील्ये णिनिः' अन्यत्रआमोदः सौरभमेषामस्तीत्यामोदिनः 'मत्वर्थीय इनिः' तैरामोदिभिः प्रीतिजननैः सुग न्धिभिश्च, जातयः आर्यादीनि छन्दांसि मालत्यश्च, तजातैः तदुद्भवः, आर्यादिजातिच्छन्दोनिबद्धैः मालत्यादिग्रथितैश्च, गीत्यन्विता गीतिच्छन्दोनिबद्धाः, षट्पदाः गाथाविशेषा येषु तैः, अन्यत्र-झङ्कारयुक्तभ्रमरैः, नवीनैः अभिनवैः, स्तोत्रैः, प्रसूनस्तबकैः कुसुमगुच्छश्च, आनर्च अर्चयामास, स्तवैः पुष्पाञ्जलिभिश्च पूजयामासेत्यर्थः / अौंवादिकालिटि, 'अत आदेः' इत्यभ्यासदीर्घः तस्यानर्च / अत्र स्तवानां प्रसूनस्तब. कानाञ्चोभयेषाम् अपि अर्चनसाधनत्वेन प्रकृतानामेकाचनक्रियाभिसम्बन्धात् केवलप्रकृतविषया तुल्ययोगिता, लक्षणन्तु उक्तं प्राक॥६॥ इस ( देव-सभाजन ) के बाद उस ( दमयन्ती) ने विशदता ( प्रसादगुण, अथवाशब्दार्थालङ्कार के होने तथा अपशब्द-भावशून्यतादि दोष रहित होने, पक्षा०-शुभ्रता ) से हृदयग्राही, मृदुता ( निष्ठुर वर्णादिसे रहित होने के कारण शब्द-माधुर्य, पक्षा० -कोमलता ) से मनोहर, हर्षजनक ( पक्षा०-सुगन्धियुक्त ), जाति (26 अक्षरोंके चरणोंवाले छन्दों या अनुष्टुप् आदि ) से रचित ( पक्षा०–मालतीसे बने हुए ), 'गीति' नामक छन्दोविशेषमें रचित छः चरणोंकी गाथाओंवाले ( पक्षा०-गूंजते हुए भ्रमरोंवाले ) नये (तत्काल बनाये अर्थात् रचे ( पक्षा०-गुथे ) गये स्तुतिरूप पुष्पोंके गुच्छोंसे उन (देवों) की पूजा की। ('हृत्पद्मसमन्यधिवास्य बुद्धया दध्यावथैतानियमेकताना / सुपवेणां हि स्फुटभावना या सा पूर्वरूपं फलभावनायाः // 1 // हृदिति / अथ पूजानन्तरमिय मेकतानाऽनन्यवृत्तिस्तत्परा सती हृद्येव पद्मे तद्रूपे गृहे एतानिन्द्रादीन् बुद्धयाऽधिवास्याधिष्ठाप्य दध्यो / सर्वगतानामपि देवानां हृदये बुद्धया समारोपितं रूपं ध्यानेन साक्षादकृतेति यावत् / हि यस्मात्सुपर्वणां देवानां या स्फुटा भावना ध्यानबलेन प्रत्यक्षता सा फलभावनायाः कार्यसिद्धेः पूर्वरूपं प्रथम स्वरूपम् / कारणस्य कार्यापेक्षया नियतप्राग्भावित्वाद्देवानां प्रत्यक्षतायाः कार्यमानं प्रति कारणत्वात्कार्यकारणसामग्रीरूपां देवताप्रत्यक्षतां ध्यानेनाकृतेत्यर्थः / पूजायाः पूर्वमनन्तरञ्च ध्यानस्येष्टत्वात् 'यत्तान्-'(१४।४) इत्यस्यास्य (147) च श्लोकस्य न पौनरुक्त्यम् / 'उपान्वध्याङ्वसः' इत्यत्राण्यन्तस्य वसेर्ग्रहणात् 'स्वहस्तदत्ते. 1. अयं श्लोको म. म. मल्लिनाथेन न व्याख्यात इत्यतो मयाऽसौ 'नारायणभट्ट' कृत 'प्रकाश' व्याख्यया सार्धमिहोपन्यस्तः। 2. 'सुखावबोधव्याख्यायान्तु' यत्तान्-(१४४) इति श्लोकोत्तरमेतमपि व्या. ख्याय 'पूर्वोक्तार्थ एवायं निबद्धः / अत एव पाठान्तरम्' इत्युपसंहृतम् / अत एब 'जीवातौ' न व्याख्यायि इति म. म. शिवदत्तशर्माणः /