________________ 828 नैषधमहाकाव्यम् / श्रद्धामयीभूय सुपर्वणस्तान ननाम नामग्रहणायकं सा | सुरेषु हि श्रद्दधतां नमस्या सर्वार्थनिध्यङ्गमिथःसमस्या / / 3 / / श्रद्धेति / सा दमयन्ती, श्रद्धा विश्वासः, तन्मयी तयुक्ता भूत्वा श्रद्धामयीभय 'अभूततनावे च्चौ समासे क्त्वो ल्यबादेशः'तान् सुपर्वणो देवान् , नामग्रहणायकम् अमुकदेवाय नम इत्यादि नामोच्चारणपूर्वकं यथा तथा, ननाम प्रणामं कृतवती ।हि यतः, सुरेषु विषये श्रद्धतां विश्वसतां, नमस्या नमस्कारः, श्रद्धापूर्वकनमस्कार इत्यर्थः, नमस्यतेः क्यजन्तात् 'अ प्रत्ययात्' इति स्त्रियाम् अ-प्रत्यये टाप, सर्वेषामर्थानां निधौ पूरणविषये, यान्यङ्गानि साधनानि, तेषां मिथः रहसि, अन्यानपेक्षमेवे. त्यर्थः, किमपि आडम्बरमकृत्ववेति यावत् , समस्या समासार्था, संयोजनकारिका इत्यर्थः, सर्वार्थसाधिका इति यावत् , समस्यते सङ्क्षिप्यते अनयेति समस्या, संपूर्वा दस्यतेः क्यबन्तात् 'अ प्रत्ययात्' इति स्त्रियाम् अ-प्रत्यये टाप, 'मिथोऽन्योन्यं रहा स्यपि', 'समस्या तु समासार्था' इति चामरः, सति नमस्कारे सर्वसाधनं फलदं नान्यथेति सा नमश्चकारेति निष्कर्षः / सामान्येन विशेषसमर्थनरूपोऽर्थान्तर न्यासालङ्कारः॥३॥ "विश्वासयुक्त ( या-बहुत आस्तिक्यवाली ) होकर उस ( दमयन्ती ) ने पहले नामोच्चा रणकर ( 'इन्द्राय नमः' इत्यादि कहकर ) उन ( इन्द्रादि ) देवोंको नमस्कार किया, क्योंकि देवोंमें श्रद्धालुलोगोंका नमस्कार सब प्रयोजनोंकी पूर्तिमें दूसरेकी अपेक्षाके विना संयोजक ( पाठा०-सब प्रयोजनोंकी सिद्धि के अङ्गोंके परस्सर पूरणका कारण ) है। [ जिस प्रकार समस्या सब अर्थको पूर्ण पद्यरूप बनकर पूरा करती है, उसी प्रकार श्रद्धापूर्वक किया गया देव-नमस्कार भी नमस्कर्ताओं के सब प्रयोजनोंको दूसरे किसी आडम्बरके विना पूरा करती है ] // 3 // यत्तानिजे सा हृदि भावनाया बलेन साक्षादकृताखिलस्थान् | अभूदभीष्टप्रतिभूः स तस्या वरं हि दृष्टा ददते परं ते // 4 // यदिति / सा भैमी, भावनाया बलेन ध्यानदाढर्थेन, अखिलस्थान् सर्वगतान् , तान् देवान् , निजे हृदि साक्षादकृत साक्षात् कृतवती, करोतेः कर्तरि लुङ तङ, 'हस्वादङ्गात्' इति सिचो लोपः, इति यत्, स साक्षात्कार एव, तस्या भैम्याः, अभीष्टे इष्टार्थसिद्धी, प्रतिभूर्लग्नकः, अभूत् ; हि यतः, ते देवाः, दृष्टाः प्रत्यक्षीभूताः, चेत् तदा इति पदद्वयमत्राध्याहरणीयम् ; परमवश्यं, वरं ददते / 'न दातुं देवा वरमर्हन्ति म प्रत्यक्षदृष्टा मनुष्येभ्यः' इति श्र तिः। अत्र कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्या. सालङ्कारः॥४॥ 1. 'सिद्धयङ्ग' इति पाठान्तरम् /