________________ 822 नैषधमहाकाव्यम् / यस्येश्वरेण यदलेखि ललाटपट्टे तत् स्यादयोग्यमपि योग्यमपास्य तस्य / का वासनाऽस्तु बिभृयामिह यां हृदाऽहं ? नार्कातपैलजमेति हिमैस्तु दाहम् / / 49 / / यस्येति / यस्य जनस्य, ललाटपट्टे भालफलके, ईश्वरेण विधिना, यत् शुभमशुभं वा कर्मानुरूपम् , अलेखि लिखितं, तस्य जनस्य, अयोग्यम् अनहमपि, तत् शुभाशुभं कत्तः, योग्यमनुरूपं फलम्, अपास्य अनादृत्य, स्यादेव स्वयं भवेदेवेत्यर्थः, एवं स्थिते सा वासना ईश्वरेच्छानुगृहीतकर्मवासना युक्तिर्वा, का अस्तु ? सम्भावनायां लोट , का वा सम्भविता ? तन्न वेद्मीत्यर्थः, इह नलनिश्चयविषये, यां वासनाम्, अहं हृदा हृदयेन, बिभृयां धारयेयम् ? अन्यतरनिश्चये सन्देहदुःखं न स्यादित्यर्थः / तत् स्यादयोग्यमपीत्यत्र दृष्टान्तमाह-जल पद्मम्, अर्कातपैः तपनसन्तापैः, दाहं न एति, तु किन्तु, हिमैः एति, तेन ईश्वरेच्छाऽनुगृहीतकर्मवासनानुसारिणी नलप्राप्तिः, सा तु दु या इति का गतिः ? अतो देवानां न दोष इति भावः // 45 // भगवान्ने जिसके ललाटमें जो ( अयोग्य भी बात ) लिख दिया है, उसके योग्य ( बात ) को भी दूरकर वह अयोग्य बात हो जाती है, ( अतएव ) मैं ( नल-विषयक सन्देह होनेपर सत्य नलका निश्चय करनेके लिए ) जिस उपायको हृदयसे ग्रहण करूँ, वह कौन उपाय है ? कमल सूर्यताप ( उष्णप्रकृति घाम ) से नहीं जलता, किन्तु हिम ( शीतप्रकृतिक हिम ) से जल जाता है। [ सूर्यतापकी उष्ण प्रकृति होनेके कारण उसीसे कमलका जलना उचित है, शीतप्रकृतिक हिमसे नहीं; किन्तु कमलमें इसके विपरीत कार्य होता है। अतः यह निश्चित है कि भगवान्ने जिसके ललाटमें अयोग्य बात भी लिखी है, उसकी वह अयोग्य ही बात होती है योग्य नहीं, अतएव मेरे तथा नलका संयोग यदि भगवान्ने ललाटमें नहीं लिखा है तो वह किसी उपायसे भी नहीं हो सकता, इस कारण ( नलका निश्चय न कर सकने ) में मेरी ललाटलेखा ( भाग्य ) का ही दोष है इन देवताओं का नहीं ] / / 49 / / इत्थं यथेह मदभाग्यमनेन मन्ये कल्पद्रमोऽपि स मया खलु याच्यमानः। सङ्कोचसंज्वरदलाङ्गलिपल्लवाग्रपाणीभवन् भवति मां प्रति बद्धमुष्टिः // 50 // . इत्थमिति / इह समये, इत्थमेतादृशं, मम अभाग्यं मन्दभाग्यम् , अभूदिति शेषः, यथा येन, अनेन मन्दभाग्येन, सः अतिवदान्यः, कल्पद्मोऽपि मया याच्या मानः सन् , सङ्कोचो मुकुलीभावः, स एव संज्वरः सन्तापः, 'सन्तापः संज्वरः समौ' इत्यमरः, येषां तादृशानि दलान्येवाङ्गुलयो यस्य तादृशः पल्लवाग्रमेव पाणियस्य तादृगभवन् सङ्कुचितपाणीभवन् अभूततद्भावे चिः दीर्घश्च, मां प्रति बद्धमुष्टिः अमुक्तहस्तः, कृपण इत्यर्थः, भवति खलु भवत्येव, इति मन्ये; अर्थिमनोरथपूरकः