SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ 806 नैषधमहाकाव्यम्। रूप को प्राप्त कर इस स्वयंवर सभामें प्रकाशमान इन इन्द्र आदि चारों देवों में से किसमें आत्मसमर्पण करना शुभके लिए होगा अर्थात् मेरे अनेक बार कहने पर भी नलको वरण नहीं करतीं तो अतिशय सुन्दर इनमें से किसका वरण करती हो ? कहो [ इस वचनसे यहाँ पर इन्द्रादि देव हैं या नहीं ? दमयन्तीके इस सन्देह को सरस्वती देवीने दूर कर दिया, किन्तु इनमे वे इन्द्रादि देव कौन हैं ? तथा नल कौन है-यह विशेष नहीं बतलाया, यहां पर इन्द्रादिका त्याग भी प्रतीत होता है ] / अथवा-जो तुम नलमें अभिलाषवती हो, उस तुम्हारा नलके समान रूपको प्राप्तकर इस सभामें प्रकाशमान इन्द्रादि चार देवोंमे-आत्म समर्पण करना कहां शुभके लिए होगा ? अर्थात् दूसरे में अनुरक्त स्त्री का दूसरे को आत्म समर्पण कर पति बनाना कभी कल्याण ( हर्ष ) कारक नहीं हो सकता, अत एव तुम इन इन्द्रादि का त्यागकर नलको ही वरण करो // 32 // देवः पतिर्विदुषि ! नैष धराजगत्या निर्णीयते न किमु न वियते भवत्या ? | नायं नलः खलु तवातिमहा नलाभो यद्येनमुज्झसि वरः कतरः पुनस्ते ? / / देव इति / विदुषि ! हे विदग्धे ! मदुक्तिवैचित्र्याभिज्ञे! एष धराजगत्याः भूलो. कस्य, पतिः न, किन्तु देवः, जातावेकवचनम् , एते न भूपाः किन्तु देवा इत्यर्थः, भवत्या न निर्णीयते किमु ? न वियते किमु ? मर्त्यवरणात् वरम् अमर्त्यवरणमेवेति भावः / अथवा-धरान् पर्वतान् , अजति क्षिपतीति धराज इन्द्रः, स एव गतिः शरणं यस्या इति धराजगतिः प्राचीदिक तस्याः, पतिः एष देव इन्द्रः, न निर्णीयते इति न, अपि तु निर्णीयते एव, अत एव उ इति सम्बोधनम् , उ भोः ! भक्त्या कि कथं, वियते ? अयमेव ते वरणीय इति भावः। अग्निपक्षे तु-धरो वाहनम् , अजः छागः यस्येति धराजो वह्निः, वह्वेरजवाहनत्वश्रवणात् , स एवं गतिः शरणं यस्याः तस्याः आग्नेय्या दिशः, पतिरेष देवोऽग्निः, न निर्णीयते इति , अन्यत् पूर्ववत्। __ यमपक्षे तु-धरान् पर्वतान् , अजति शृङ्गाभ्यां खुरैर्वा क्षिपति इति धराजः महिषः, तेन या गतिर्गमनं तयोपलक्षितः, पतिः धर्मरूपत्वात् पालकः, देवः यमः, अन्यत् पूर्ववत् / वरुणपक्षे तु-धरायां पृथिव्यां, जायन्ते इति धराजानि स्थावरजङ्गमानि भूतानि, तेषां गतिर्जीवनोपायो जलं तस्याः, पतिः, जलाधिपतिरित्यर्थः, वरुणः, न निर्णीयते इति न, अन्यत पूर्ववत् / अयं तव सम्बन्धी त्वत्प्रार्थित इत्यर्थः, नलो न खलु, किन्तु अतिमहा मनुष्यापेक्षया अतितेजाः, नलाभः नलकल्पः, नैते नलाः किन्तु नलप्रतिरूपका इत्यर्थः; यनम् उज्झसि एषाम् अन्यतमं न वृणोषि चेदित्यर्थः, पुनः पश्चात् , ते तब, वियते इति वरो वरणीयः, वृङोऽप , कतरः ? न कश्विदस्ति, सत्यनलस्य दुर्लभत्वादिति भावः /
SR No.032782
Book TitleNaishadh Mahakavyam Uttararddham
Original Sutra AuthorN/A
AuthorHargovinddas Shastri
PublisherChaukhambha Sanskrit Series Office
Publication Year1997
Total Pages922
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy