________________ द६८ नैषधमहाकाव्यम् / ( अथवा-गुणशा इसने राजाओंकी सभामें मानी इस काशीनरेशका जो तिरस्कार किया, उस कारण मानो अपकीर्तिसे वह राजा मलिन हो गया / अथवा-मानी वह राजा मलिन हो गया, शेष व्याख्या पूर्ववत् है ॥)[गुणज्ञ व्यक्ति किसी मानी व्यक्तिका राजसमामें तिरस्कार करता है तो वह मानी व्यक्ति मानो अपकीर्तिसे खिन्न हो जाता है, किन्तु अगुणज्ञ (मूर्ख) के अपमान करनेपर खिन्न नहीं होता, अतः उस राजाका गुणज्ञा दमयन्तीके - राजसभामें निरादर करनेपर खिन्न होना उचित ही था ] // 128 / / साऽनन्तानाप्य तेजःसखनिखिलमरुत्पार्थिवान् दिष्टभाजः चित्तेनाशापुषस्तान् सममसमगुणान् मुञ्चती गृढभावा / पारेवाग्वत्तिरूपं पुरुषमनु चिदम्भोधिमेकं शुभाङ्गी निःसीमानन्दमासीदुपनिषदुपमा तत्परीभूय भूयः॥१२९ / / सेति / अनन्तान् अपरिमितान् , दिष्टभाजो भाग्यभाजः, चित्तेन आशाम् अभिलार्ष, पुष्णन्ति इति आशापुषः भैमी कामयमानानित्यर्थः, तान् प्रसिद्धान्, असमगुणान् असाधारणशौर्यादिगुणान् , तेजसः सखायः तेजःसखाः तेजस्विन इत्यर्थः, 'राजाहःसखिभ्यष्टच' निखिला मरुतो देवा इन्द्रादयः, पार्थिवाश्च तान् , आप्य प्राप्य, समं युगपत् , मुञ्चती परिहरन्ती, उपनिषत्पनेतु-सानन्तान् आकाशसहि. तान् , 'अनन्तं सुरवमै खम् / पुंस्याकाशविहायसी' इत्यमरः। दिष्टभाजः कालयुक्तान्, 'दिष्टं भाग्ये च काले च' इति विश्वः / चित्तेन मनसा, समं सह, आशापुषो दिग्युक्तान्, 'आशा दिगतितृष्णयोः' इति वैजयन्ती। असमगुणान् न्यूनाधिकसङ्ख्यातरूपरसादिगुणकान् , अपां विकारः आप्यं, 'त्रिषु द्वे भाप्यमम्मयम्' इत्यमरः। आप्यञ्चेति चान्द्रसूत्रनिपातनात् साधुः / तेजःसखाः तेजोव्यसहिताः, निखिलाः मरुतः वायवः, 'मरुतौ पवनामरौ' इत्यमरः / पार्थिवाः पृथिवीविकाराः, अत्रापि आप्यपार्थिवशब्दौ तद्धितान्तावपि प्रकरणात् प्रकृत्यर्थमात्रपुरौ द्रष्टव्यौ, तान् मुञ्चती तार्किकोक्तपृथिव्यादिनवद्रव्येषु आत्मातिरिक्तद्रव्याष्टकस्य 'एकमेवा. द्वितीयम्' 'नेति नेति' इत्यादि श्रुतिवाक्यैः निषेधं कुर्वतीत्यर्थः, गूदभावा गूढ़ः गोपायितः, भावः नलानुरागो यया सा, अन्यत्र-ब्रह्मरूपगहनार्थप्रतिपादनात् दुर. वगाहाभिप्राया, शुभाङ्गी अनवद्यगात्री, अन्यत्र-सम्पूर्णाङ्गी, षडङ्गयुक्ता इत्यर्थः, सा दमयन्ती, वाचां पारे परपारे पारेवाक् 'पारे मध्ये षष्ठ्या वा' इत्यव्ययीभावः, तद्वति बाचा वर्णयितुमशक्यं, रूपं सौन्दर्य यस्य तम् ; अन्यत्र-'यतो वाचः-' इत्यादि श्रुतेः वाग्व्यापारातीतस्वरूपं, चिदम्भोधिं सकलशास्त्रपारगत्वेन ज्ञानसागरम् ; अन्यत्र-तद्रूपं, ज्ञानघनमित्यर्थः, एकं स्वसमानगुणशालिद्वितीयरहितम् ; अन्यत्रअद्वितीयं, निःसीमा आनन्दो यस्येति बहुव्रीहिः / अपारानन्दयुक्तम्, अन्यत्रअनन्त सुखस्वरूपं,कर्मधारयः। पुरुष नलरूपं पुमांसं परमात्मानञ्च, अनु लक्षयित्वा,