________________ एकादशः सर्गः। 656 चलदिः दलैः कुश्शानां पत्रैरेव, मण्डलाः खड्गैः कुशपत्ररूपखड्गैरित्यर्थः, 'खड़गे तु निस्त्रिंशचन्द्रहासासिरिष्टयः / कोक्षयको मण्डलामः करवालः कृपाणवत् // ' इत्यमरः / अत्र रूपकालङ्कारः; भिन्नात् विदारितात् , अभ्रमण्डलात् मेघमण्डलात् , गलद्भिः स्रवद्भिः, जलैः जातः सेको यस्य सः कुशस्य स्तम्बः दर्भगुल्मः, 'अग्रकाण्डे स्तम्बगुल्मी' इत्यमरः, नेत्राभ्यां निपीयमानः आदरात् दृश्यमानः सन् . तव चित्राय विस्मयाय, भविता भविष्यति // 59 // आकाशस्पर्शी अग्रभागवाला तथा वायुपरम्पराके द्वारा कँपानेसे चञ्चल पत्ररूपी तलवारोंसे छिन्न-भिन्न मेघसमूहसे गिरते हुए जलके द्वारा सींचे गये कुशस्तम्बको देखकर तुम्हें आश्चर्य होगा। [कुशद्वीपस्थ कुशका स्तम्ब आकाशस्पी है, वायुसमूहसे चञ्चल तलवारके समान तीक्ष्ण पत्तोंसे छिन्न-भिन्न मेघसमूहसे बरसे हुए पानीसे वह कुश सिक्त हो जाता है उसे देखकर तुम्हें आश्चर्य होगा ) // 59 // पाथोधिमन्थसमयोत्थितसिन्धुपुत्त्रीपत्पङ्कजार्पणपवित्रशिलासु तत्र / पत्यासहाऽऽवह विहारमयैर्विलासैरानन्दमिन्दुमुखि ! मन्दरकन्दरासु / / पाथोधीति / हे इन्दुमुखि ! तन्त्र कुशद्वीपे, पाथोधिमन्थस्य अब्धिमथनस्य, समये उत्थितायाः उद्गतायाः, समुद्रमन्थकाले तजलमध्यादुद्भूताया इत्यर्थः, सिन्धु, पुत्र्याः लपण्या:, पत्पङ्कजयोः चरणकमलयोः, 'पदनिश्चरणोऽस्त्रियाम्' इत्यमरः, अर्पणेन पवित्राः शिलाः यासु तासु मन्दरकन्दरासु पत्या भी सह, विहाररूपः, विलासैः विनोदैः, आनन्दम आवह धारय // 60 // हे चन्द्रमुखि ( दमयन्ति )! उस कुशद्वीपमें समुद्रमथनके समय निकली हुई लक्ष्मीके चरणकमलके अर्पणसे पवित्र चट्टानोंवाली मन्दराचलकी गुफाओंमें विहारमय (विहाररूप या विहारबहुल ) विलासों ( कटाक्ष-विक्षेपादि ) से पति ( रूपमें वृत इस राजा) के साथ आनन्द प्राप्त करो // 6 // आरोहणाय तव सज इवास्ति तत्र सोपानशोभिवपुरश्मबलिच्छटाभिः / भोगीन्द्रवेष्टशतघृष्टिकृताभिरब्धि-क्षुब्धाचलः कनककेतकगोत्रगात्रि ! / / आरोहणायेति / कनककेतकं स्वर्णकेतकदलं, गोत्रम् अभिजनो यस्य तत् तादृशश, तस्य गोत्रं सन्ततिर्वा, गात्रं यस्याः तस्याः सम्बुद्धिः, तद्गात्रि ! तरसदृशगात्री. त्यर्थः, 'अङ्गपात्रकण्ठेभ्यः' इत्यादिना ङीष, तत्र कुशद्वीपे, भोगीन्द्रस्य वासुके वेष्टशतवृष्टिभिः वेष्टनशतानां घर्षणैः कृताभिः अश्मसु शिलासु, बलीनां वेष्टनमार्गाणां, छटाभिः समूहः हेतुभिः, सोपानः शोभते इति तच्छोभि वपुः यस्य सः बलिकृतसोपानपतिः अब्धेः क्षुब्धाचलः मन्दराद्रिः 'तुब्धस्वान्त-' इत्यादिना निपातना साधुः, तवारोहणाय सज्जः सज्जित इव, अस्ति वर्तते, इत्युत्प्रेक्षा // 61 //