________________ 658 नैषधमहाकाव्यम्। कैकमुद्गतगुणं धुनदूषणञ्च हित्वाऽन्यमन्यमुपगम्य परित्यजन्तीम् / एतां जगाद जगदर्चितपादपद्मा पनामिवाच्युतभुजान्तरविच्युतां सा / / एकैकमिति / जगद्भिः अर्चितपादपद्मा जगद्वन्द्या, सा सरस्वती, उद्गतगुणं गुणाढ्यं, धुतदूषणं निर्दोषञ्च, एकैकम् एकमेकं नृपं, वीप्सायां द्विर्भावः / 'एकं बहुः वीहिवत्' इति बहुव्रीहिवद्रावात् सुपो लुक् / हित्वा अन्यम् अन्यं नृपति, पूर्ववत् द्विर्भावः, उपगम्य परित्यजन्तीं तमपि परिहरन्तीम् , अच्युतस्य विष्णोः, भुजान्त. रात वक्षःस्थलात् , विच्युतां पद्मा साहालक्ष्मीमिव स्थिताम् , इत्युत्प्रेक्षा, एतां भैमी, जगाद // 57 // जगत्पूज्यचरणकमलवालो ( सरस्वती देवी), गुणयुक्त ( पाठा०-आश्चर्यजनक गुण. वाले ) और दोषरहित एक-एक ( राजा) को छोड़कर दूसरे-दूसरे (राजा) के पास जाकर ( उसे भी) छोड़ती हुई तथा विष्णुके वक्षःस्थलसे अवतीर्ण लक्ष्मीरूपा उस ( दमयन्ती) से बोली-॥ 57 // ईशः कुशेशयसनाभिशये! कुशेन द्वीपस्य लाञ्छिततनोर्यदिवाञ्छितस्ते / . ज्योतिष्मता सममनेन वनीघनासु तत् त्वं विनोदय घृतोदतटीषु चेतः / ईश इति / हे कुशेशयसनाभिशये! कमलसदृशपाणि! 'पञ्चशाखः शयः पाणिः' इत्यमरः / कुशेन दर्भस्तम्बेन, लामिछततनोः चिह्नितस्वरूपस्य, द्वीपस्य कुशद्वीपस्य, ईशः स्वामी, ते तव, वान्छितः इष्टः, यदि तत्तर्हि, त्वं ज्योतिष्मता ज्योतिष्मन्ना. मकेन, अनेन कुशद्वीपेश्वरेण, समं सह, वनीभिः घनासु वनसान्द्रासु, घृतम् उदकं यस्य सःघृतोदः घृतसमुद्रः, 'उदकस्योदः संज्ञायाम्' इत्युदादेशः, तस्य तटीषु तीरेषु चेतः चित्तं, विनोदय विनोदं कारय, विपूर्वात् नुदधातोः घन्तात् विनोद. शब्दात् 'तत् करोति'-इति ण्यन्ताल्लोटि सिप // 58 // ह कमलतुल्य हाथवाली ( दमयन्ति ) ! कुशासे चिह्नित देहवाले ( बहुत कुशाओंसे पूर्ण) द्वीप अर्थात् 'कुश-द्वीप' का स्वामी यदि तुम्हें अभीष्ट है तो तुम 'ज्योतिष्मान्' ( सौन्दर्यसे प्रकाशमान, पक्षा०-'ज्योतिष्मान्' नामवाले ) इस ( कुशद्वीपाविपति ) के साथ वनोंसे सघन समुद्रतटोंमें मन बहलावो [ अर्थात् इस 'ज्योतिष्मान् राजाको बरण कर वनोंसे सघन समुद्रतटमें विहार करो] // 58 // वातोर्मिलोलनचलहलमण्डलामभिन्नाम्रमण्डलगलज्जलजातसेकः / स्तम्बः कुशस्य भविताऽम्बरचुम्बिचूडश्चित्राय तत्र तव नेत्रनिपीयमानः / / वातेति / तत्र कुशद्वीपे, अम्बरचुम्बिनो गगनतललग्ना, चूडा अग्रं यस्य सः अभ्रकषान इत्यर्थः, अत एव वातस्य वायोः, ऊर्मिणा तरङ्गभङ्गया, लोलनेन कम्पनेन, - 1. '-मद्भुतगणम्' इति पा०। 2. 'विच्युतांसाम्' इति पा० /