________________ 578 नैषधमहाकाव्यम् / नलानसत्यानवदत् स सत्यः कृतोपवेशान् सविधे सुरेशान् / नोभाविलाभूः किमु दर्पकश्च भवन्ति नासत्ययुजौ भवन्तः ? // 45 // नलानिति / सत्यः स नलो यथार्थनलः, असत्यान् नलान् अलीकभूतान् , नलरूपधारिणः इत्यर्थः, सविधे समीपे, कृतोपवेशान् उपविष्टान् , सुरेशान् सुरेन्द्रादीन् , अवदत् ; किमिति ? हे धन्याः। भवन्तः असत्यौ सत्यरहितौ न भवत इति 'नासत्या. चश्विनौ दस्रो'इति निपातनान्नङो नलोपाभावः / ताभ्यां युज्यते इति तद्युजौ तद्युक्ती, 'सत्सूद्विष-' इत्यादिना किंप् / उभाविलायामिलादेव्यांभवति इति इलाभूरेलः पुरू. रवाः, विप, दर्पकः कामश्च, न भवन्ति किमु ? इति प्रश्नः / 'शेषेप्रथमः' इति प्रथम. पुरुषः, चत्वारो यूयमश्विनौ पुरूरवाः कामश्च किं न भवथ इत्यपृच्छदित्यर्थः, तेषु निजरूपदर्शनादन्येषामिव स्वस्यापि विस्मयावेशाच इत्थमप्राक्षीदिति भावः // 45 // उस वास्तविक नलने पासमें बैठे हुए अवास्तविक नल बने हुए देवों (पाठा०सुन्दर वेषवाले अवास्तविक नलों ) से कहा-आपलोग पुरूरवा तथा कामदेव-ये दोनों और दोनों अश्विनीकुमार नहीं हैं क्या ? / [जिस प्रकार नलको देखनेसे दूसरों को आश्चर्य हुआ था, उसी प्रकार नलरूपधारी असत्य नलोंको देखकर ( वास्तविक ) नलको भी आश्चर्य हुआ, अत एव उन्होंने उनसे उक्त प्रश्न किये ] // 45 // अमीतमाहुः स्म यदत्र मध्ये कस्यापि नोत्पत्तिरभूदिलायाम् / अदर्पकाःस्मः सविधेस्थितास्ते नासत्यतां नापि बिभर्ति कश्चित्॥४६॥ ___ अमी इति / अथामी देवाः, तं नलम्, आहुः स्म ऊचुः, 'लट स्मे' इति भूते लट / उत्तरश्लोके 'तेभ्यः परानः परिभावयस्व' इति वच्यते, तत्र हेतुमाह,-यदिति / यत् यस्मात् कारणात् , ते तव, सविधे समीपे, स्थिताः, ये वयमिति शेषः, अत्रैतेषु चतुर्यु अस्मासु, मध्ये कस्यापि इलायां बुधकलने इलादेव्यां, भूमौ च, उत्पत्ति - भूत् , अत्र न कोऽप्येकः पुरूरवाः न कोऽपि च भौमः इत्यर्थः, किन्तु अदर्पका दर्प कात् कामाद्भिन्नाः, दर्पशून्याश्च तव सौन्दर्यातिशयदर्शनेन गर्वशून्या इत्यर्थः, स्मः भवामः, कश्चिन्नासत्यताम् आश्विनेयत्वं सत्यत्वञ्च, न बिभर्ति अस्मासु न कोऽपि नासत्यः, अथ च तव रूपधारणात् न कोऽपि सत्यः किन्तु सर्व वयमसत्या इत्यर्थः / नासत्यावश्विनौ दनौ' इत्यमरः। नासत्यतां सत्यतां बिभर्तीति किन्त्व. सत्यनला वयमित्यर्थान्तरम् // 46 // इन इन्द्रादि देवोंने उस (नल ) से कहा कि-(जो ) हमलोग तुम्हारे पासमें बैठे हैं, इन ( हम चारों ) में किसीकी उत्पत्ति 'हला' नामकी स्त्री (पक्षा०-पृथ्वी) में नहीं हुई है अर्थात् हम चारोंमें-से कोई इला-पुत्र पुरूरवा नहीं है ( पक्षा०-पृथ्वीपर कोई 1. 'उभौ किमैलश्च न दर्पकश्व' इति पाठान्तरम् / 2. 'तमीदृग्जगुरत्र' इति पाठान्तरम्। 3. 'नात्र' इति पाठान्तरम् /