________________ 458 नैषधमहाकाव्यम् / चण्डालके अदृश्य बाणोंसे पीडित होनेवाला व्यक्ति उसकी अपेक्षा प्रत्यक्षमें आये हुए उस प्रेरक व्यक्तिके तीक्ष्ण बाणोंसे मर जाना उत्तम मानता है ] // 93 // स्वदथिनः सन्तु परस्सहस्राः प्राणास्तु नस्त्वचरणप्रसादः। विशङ्कसे कैतवनतितकचेदन्तश्चरः पञ्चशरः प्रमाणम् // 14 // त्वदिति / हे भैमि ! स्वामर्थयन्त इति त्वदर्थिनः त्वत्कामुकाः सहस्रात् परे परस्सहस्राः सहस्राधिकसङ्ख्याका इत्यर्थः / 'परश्शताधास्ते येषां परा सङ्घया शता. धिका' इत्यमरः / पञ्चमीति योगविभागात् समासः, राजदन्तादित्वादुपसर्जनस्य सहस्रशब्दस्य परनिपातः। पारस्करादित्वात् सुडागमः / सन्तु, नोऽस्माकं प्राणास्तु त्वचरणयोः प्रसादोऽनुग्रहः वयं त्वदेकायत्तजीविता इत्यर्थः। अथ कैतवनतितं कपटनाटकं विशङ्कसे चेत् अन्तश्चरो हृदयान्तर्वर्ती पञ्चशरः प्रमाणम्, काम एवात्र माक्षी। स हि महती देवतेति भावः // 94 // सहस्रोंसे अधिक लोग तुम्हें चाहनेवाले ( भले ही) हों, किन्तु हमलो के प्राण तुम्हारे चरणोंके प्रसाद हैं ( तुम्हारे चरणों के प्रसन्न होनेपर ही हमलोग जीवित रह सकते हैं, अन्यथा नहीं); यदि तुम (हमलोगोंके इस कथनमें) कपटभाषण की आशङ्का करती हो तो ( इस विषयमें हमलोगों के भीतर स्थित ) कामदेव ही प्रमाण अर्थात् साक्षी है / [ भीतर तक घूमनेवाला तथा देवरूप होनेसे कामदेव ही हमलोगोंकी वातकी सत्यरूपमें प्रमाणित करेगा, अतः ऐसे प्रामाणिक साक्षीके रहते तुमको हमलोगोंकी बातमें आशङ्का नहीं करनी चाहिये / तुम्हारे बिना हमलोग नहीं जीवेंगे, अतः कृपाकर हमलोगोंको वरण करो] // 94 // [ 'नास्माकमस्मान्मदनापमृत्योस्राणाय पीयूषरसायनानि | सुधारसादभ्यधिकं प्रयच्छ प्रसीद वैदभि ! निजाधरं नः॥१॥] अस्माकमिति / हे वैदर्भि दमयन्ति ! मदनः कामो धत्तरो वा स एव अपमृत्युः रकालमरणं तस्मात्त्राणाय रक्षणाय पीयूषममृतमेव रसायनानि रसायनभेषजानि न समर्थानीति शेषः / अस्माकमि'त्यस्य मदनापमृत्युना त्राणेन पीयूषरसायनेर्वाऽपि सम्बन्धो यथेष्टं कार्यः। ततो हेतोः प्रसीद अस्मासु प्रसन्ना भव / कीदृशी प्रसन्नतेत्या. ह-सुधेति / सुधाऽमृतमेव रसो रसायनौषधं माधुर्यादिषड्सा वा तस्मादभ्यधिक मतिशयितमपमृत्युवारणे आस्वादने वेत्यर्थः / निजाधरं स्वाधरं प्रयच्छ देहि, पाना. येति शेषः / अत्र 'प्रसीद' पदोपादानाद्देवानामतिशयितं दीनवचनमिति सूच्यते / 1. अयं श्लोको वक्ष्यमाण (1104) श्लोकार्थक एवं म० म० शिवदत्तशर्ममिष्टिप्पण्यां क्वाचिकत्वेनोल्लिखित इति मयाऽप्यसौ देव-राष्ट्र-वाण्योः क्रमशो व्याख्यातोऽनूदितश्चेति बोध्यम् / परंतैः "अस्माक'....” इति पाठ उल्लिखितोऽपि न यथार्थसङ्गतिक इति मया तत्र "नास्माक'....." इति पाठः परिवर्तितः।