________________ 102 नैषधमहाकाव्यम् / क्रमोद्गता पीवरताधिजथं वृक्षाधिरूढिं विदुषी किमस्याः / अपि भ्रमीभङ्गिभिरावृताङ्गं वासो लतावेष्टितकप्रवीणम् // 96 / / क्रमेति / अस्याः भैभ्या अधिजङ्घ जङ्घयोः विभक्त्यर्थेऽव्ययीभावः / क्रमेणानुपूः ात् उद्गता उदिता पीवरता पीनत्वं वृक्षाधिरूढमाश्लेषविशेष विदुषी किं ज्ञात्री किम ? "न लोक" इत्यादिना षष्ठीप्रतिषेधः। किञ्च भ्रमीभङ्गिभिर्वेष्टनविशेषैः आवृ. ताङ्गमाच्छादितगात्रं वासो वस्त्रमपि लतावेष्टितके आलिङ्गनविशेषे प्रवीणं किम् ? उभयत्राप्यन्यथा कथमित्थमाश्लिष्येदिति भावः / अनयोलक्षणमुक्तं रतिरहस्ये"रमणचरणमेकेनाङघ्रिणाक्रम्य भिन्नं, श्वसितमपरपादेनाश्रयन्ती तदूरुम् / निजमय भुजमेकं पृष्ठतोऽस्यार्पयन्ती, पुनरपरभुजेन प्राश्चयन्ती तदङ्गम् // तरुमिव कमितारं चुम्बनाधिरूढा, यदभिलषितरागात् तच्च वृतादिरूढम्। प्रियमनुकृतवलीविभ्रमा वेष्टयन्ती, दुममिव सरलाङ्गी मन्दसीका तदीयम् // वदनमुचितखेदा कम्पमाचुम्ब. नाथ, नमयति विनदन्ती तब्बतावेष्टितं स्यात् // " इति // 96 // इस दमयन्तीकी जवाओं में क्रमशः ऊपरको बढ़ती हुई स्थूलता ( मोटाई ) वृक्षकी वृद्धिके क्रम ( पक्षा०-आलिङ्गन विशेष ) को जानती है क्या ? तथा लपेटनेके क्रमसे शरीर को ढका हुआ वस्त्र लताके ( समान ) लिपटने के क्रम ( पक्षा०-आलिङ्गन विशेष ) में चतुर हैं क्या ? [ जिस प्रकार वृक्ष जड़में पतला तथा क्रमशः ऊपरमें मोटा होता है, वैसे ही इस दमयन्तीकी जवायें भी हैं / पक्षा०-ये अवायें 'वृक्षारूढ' नामक आलिङ्गनको जाननेवाली हैं तथा जिस प्रकार वृक्षमें लता लिपटी हुई रहती है, उसी प्रकार इसके शरीरमें भी वस लिपटा रहता है, पक्षा०- लतावेष्टितक' नामक आलिङ्गनको जानता है ] // 96 // अरुन्धतीकामपुरन्ध्रिलन्मीजम्भद्विषहारनवाम्बिकानाम् / चतुर्दशीयं तदिहोषितैव गुल्फयाप्ता यदहश्यसिद्धिः / / 37 || अरुन्धतीति / इयं दमयन्ती अरुन्धती वसिष्ठपत्नी च कामपुरन्ध्री रतिश्च लचमी: पमा च जम्भद्विषहाराः शचीच नवाम्बिका ब्राह्मीप्रभृतयो नवमातरश्च यासामहश्य. त्वसिद्धिरस्तीति प्रसिद्धिरिति भावः। तासांत्रयोदशानां चतुर्दशी इयमपि तदन्तः 1. टीकातिरिक्तमपि वृक्षारूढालिङ्गनलक्षणमन्यत्रेत्यमुक्तम् , तद्यथा"वृक्षारोहणवद्यत्र क्रमादाक्रम्यतेऽङ्गकम् / वृक्षाधिरूढकं नाम बुधा आलिङ्गनं विदुः // " इति / अन्यच्च-"बाहुभ्यां कण्ठमालिङ्गय कामिनी कान्त उत्थिते / / अङ्गमारोहते तस्य वृक्षारूढः स उच्यते // " इति // 2. लतावेष्टितकालिङ्गनलक्षणमपि टोकोक्तभिन्नमन्यत्रोक्तम् तद्यथा'सव्यापसव्ययोगेन लतावत्परिवेष्टनैः / यत्र प्रत्यङ्गमाश्लिष्टं लतावेष्टितकं तु तत् // " इति / अन्यच्च-"उपविष्टं प्रियं कान्ता सुप्ता वेष्टयते यदि / तल्लतावेष्टितं शेयं कामानुभबवेदिभिः // " इति /