________________ रसो वै ब्रह्म नैषधमहाकाव्यम् जीवातु-मणिप्रभा-संस्कृत-हिन्दीव्याख्याद्वयोपेतम् प्रथमः सर्गः निपीय यस्य क्षितिरक्षिणः 'कथां तथाद्रियन्ते न बुधास्सुधामपि | नलस्सितच्छत्त्रितकीतिमण्डलस्स राशिरासीन्महसां महोश्वलः // 1 // __ अथ तत्रभवान् श्रीहर्षकविः 'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरचतये / सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे // ' इत्यालङ्कारिकवचनप्रामाण्यात् काव्यस्यानेकश्रेयःसाधनस्वाच 'काम्यालापांश्च वजयेदितितनिषेधस्यासत्काग्यविष. यतां पश्यन् नैषधाख्यं महाकाव्यं चिकीर्षुश्विकीर्षितार्थाविधनपरिसमाप्तिहेतोः आशी. नमरिक्रमा वस्तुनिर्देशो वापि तन्मुखमित्याशीराधन्यतमस्य प्रबन्धमुखलक्षणत्वात् कथानायकस्य राज्ञो नलस्य इतिवृत्तरूप मङ्गलं वस्तु निर्दिशति-निपीयेति / यस्य लितिरक्षिणः मापालस्य नलस्य कथाम उपाख्यानम् / निपीय नितरामास्वाद्य पीक स्वादे कावो त्यवादेशः न तु पिबतेः 'न ख्यपी'ति प्रतिषेधादीवासम्भवात् / दुधास्तज्ज्ञाः सुराश्च 'ज्ञातृचान्द्रिसुरा बुधा' इति धीरस्वामी। सुधामपि तथा यथेयं कथा तद्वदित्यर्थः, नाद्रियन्ते, सुधामपेक्ष्य बहु मन्यन्ते इति यावत् / सितच्छस्त्रितं सितच्छत्त्रं कृतं सितातपत्रीकृतमित्यर्थः, तत् कृताविति ण्यन्तात् कर्मणि का। कीतिमण्डलं येन सः / महसां तेजसा राशिः रविरिवेति भावः। महैः उत्सवैः उज्वलः दीप्यमानो नित्यमहोत्सवशालीत्यर्थः / 'मह उद्धव उत्सव' इत्यमरः / स नलः आसीत् / अत्र नले महसां राशिरिति कीर्तिमण्डले च सितच्छस्त्रत्वरूपस्यारोपात रूपकं कथायाश्च सुधापेक्षया उत्कर्षात् व्यतिरेकश्चेत्यनयोः संसष्टिः / तदुक्तं दर्पणे 'रूपकं रूपितारोपाद् विषये निरपह्नवे' इति / “आधिश्यमुपमेयस्योपमानान्यूनताऽथवा / व्यतिरेक" इति मिथोऽपेक्षयतेषां स्थितिः संसृष्टिरुच्यते इति च / अस्मिन् सर्गे वंशस्थं वृत्तं, 'जतौ तु वंशस्थमुदीरितं जराविति तल्लक्षणात् // 1 // 1. 'कपाः' इति पाठान्तरम /