________________ ॥श्रीः॥ नैषधीयचरितं महाकाव्यम् दशमः सर्गः कलिकलिलं कालयितुं व्याख्यातुं नलस्य सच्चरितम् / इन्दकलाधरमीडे कल्पं कल्याणकामोऽहम् / / प्रतियाते निषधेशे दौत्यं कृत्वा वरामरेन्द्राणाम् / दमयन्त्याः वरवरणं स्वयंवरं वक्तुमारभते // रथैरथायुः कुलजाः कुमाराः शस्त्रेषु शास्त्रेषु च दृष्टपाराः। स्वयंवरं शम्बरवैरिकायव्यूहश्रियः श्रीजितयक्षराजाः // 1 // अन्वयः-अथ कुलजाः शस्त्रेषु शास्त्रेषु च दृष्टपाराः शम्बरवैरिकायव्यूहश्रियः श्रीजितयक्षराजाः कुमाराः रथैः स्वयंवरभुवम् आयुः / व्याख्या-अथ =नलगमनानन्तरम्, शस्त्रेषु = शस्त्रविद्यासु, शास्त्रेषुवेदवेदाङ्गादिषु, च = अपि, दृष्टपाराः =निष्णाताः, शम्बरवरिकायव्यूहश्रियः = कामकृतकृतकशरीरसङ्घसमकान्तयः, श्रीजितयक्षराजाः = अतिकुबेरसम्पदः, कुमारा:- राजपुत्राः, रथैः स्यन्दनः, स्वयंवरभुवम् = स्वयंवरमण्डपम्, आयुः =आयान् / टिप्पणी-कुलजा:- कुलेषु जाताः कुलजाः "सप्तम्यां जनेर्डः" इति जन्धातोर्डप्रत्ययः ( उपपदसमासः ) / दृष्टपाराः = दृष्टः पारः यस्ते दृष्टपाराः (बहुव्रीहिः)। शम्बरवैरिकायव्यूहश्रियः = शम्बरस्य वैरी शम्बरवरी ( षष्ठी तत्पुरुषः ), कायानां व्यूहः कायव्यूहः (10 तत्पु०), शम्बरवैरिणः कायम्यूहस्य श्रीरिव श्रीर्येषान्ते शम्बरवरि-कायव्यूहश्रियः (व्यधिकरणबहुव्रीहिः) / श्रीजितयक्षराजाः श्रिया जित: यक्षराजो यस्ते श्रीजितयक्षराजाः (बहु० समासः ) यक्षाणां राजा यक्षराजा (षष्ठी तत्पुरुषः ) "राजाहः सखिभ्यष्टच्" इति समासान्तः। स्वयं वियतेऽस्मिनिति स्वयंवरः 'ऋदोरप्' इत्यधिकरणे