________________ नवमः सर्गः अनुग्रहादेव दिवौकसां नरो निरस्य मानुष्यकमेति दिव्यताम् / / अयोऽधिकारे स्वरितत्वमिष्यते कुतोऽयसां सिद्धरसस्पृशामपि ? // 42 // अन्वयः-(हे दमयन्ति ! ) दिवौकसाम् अनुग्रहात् एव नरो मानुष्यक निरस्य दिव्यताम् एति / तथाहि -सिद्धरसस्पृशाम् अयसाम् अपि अयो:धिकारे स्वरितत्वं कुत इष्यते ? // 42 // व्याख्या-अथ देवा मानुषीं न ग्रहीष्यन्तीत्यस्योत्तरमाह-अनुग्रहादिति / दिवौकसां = देवानाम, अनुग्रहात् एव = अभ्युपपत्तेः एव, नरः= मनुष्यः, मानुष्यक-मनुष्यभावं, निरस्य-परित्यज्य, दिव्यतां देवभावम्, एति-प्राप्नोति, मानुष्यपि त्व देवाऽनुग्रहाद्देवत्वं प्राप्स्यसीति भावः / तथाहि सिद्धरसस्पृशां - संस्कृतपारदस्पशिनाम्, अयसाम्, अपि = लोहानाम् अपि, प्राप्तसुवर्णभावानामपीति भावः / अयोऽधिकारे = अयःप्रस्तावे, स्वरितत्वम् = अधिकृतत्वम् अयःसु परिगणनेति भावः / कुतः = कस्मात् कारणात, इष्यते - अभिलष्यते, न इष्यत इति भावः / सिद्धपारदस्पृष्टस्य लोहस्य यथा सुवर्णत्वं . तथैव देवस्पृष्टायास्तव देवत्वमेव न मानुषत्वमिति भावः / / 42 // __ अनुवादः-(हे दमयन्ति ! ) देवताओं के अनुग्रहसे ही मनुष्य मनुष्यभावको छोड़कर देवभावको प्राप्त कर लेता है। सिद्ध पारेको स्पर्श करनेवाले लोहेका भी लोहेके प्रस्तावमें कैसे परिगणन इष्ट होता है ? // 42 // टिप्पणो-मानुष्यकं = मनुष्यस्य भावो मानुष्यकं, तत् “योपधाद् गुरूपोत्तमाद" इस सूत्रसे वुञ् ( अक) प्रत्यय / सिद्धरसस्पृशां - सिद्धश्चाऽसो रसः ( क. धा० ), रस शब्दके अर्थ विश्वप्रकाश कोशमें - "देहधात्वम्बुपारदाः" / सिद्धरसं स्पृशन्तीति, तेषाम्, सिद्धरस-उपपदपूर्वक स्पृश धातुसे "स्पृशोऽनुदके क्विन्" इस सूत्रसे क्विन प्रत्यय / पारद ( पारा ) संस्कारके बलसे लोहे आदिको सुवर्ग बनाने में समर्थ होनेसे “सिद्धरस" कहा जाता है। अयोऽधिकारे - अयसाम अधिकारः, तस्मिन् (ष० त०) / स्वरित्वम् = स्वरितस्य भावः, स्वरित+व+सु / “स्वरितेनाऽधिकारः" व्याकरणकी इस परि. भाषाका आश्रय करनेसे इसका "अधिकृतत्वम्" ऐसा अर्थ किया गया है। जैसे व्याकरणमें स्वरितत्वयुक्त शब्द अधिकृत होता है वैसे सिद्ध पारदके संसर्गसे लोहा लोहेमें परिगणित नहीं होता है अर्थात् सोना हो जाता है, तुम भी देवताके अनुग्रहसे मनुष्यता छोड़कर देवी बन जाओगी, यह तात्पर्य है / इस पद्यमें दृष्टान्त अलङ्कार है / / 42 //