________________ 198 नैषधीयचरितं महाकाव्यम् टिप्पणी-रक्षितजनाऽक्षिबन्धात् = रक्षिणश्च ते जनाः (क० धा० ) / अक्ष्णोर्बन्धः (10 त० ), रक्षिजनानाम् अक्षिबन्धः, तस्मात् (ष० त० ), हेतुमें पञ्चमी / नलसुन्दरं = नल इव सुन्दरः, तम्, “उपमानानि सामान्यवचनैः" इस सूत्रसे समास / आतिथ्यचाटूनि = अतिथये इमानि अातिथ्यानि, अतिथि शब्दसे "अतिथे_ः" इस सूत्रसे ञ्य प्रत्यय / आतिथ्यानि च तानि चाटुनि, तानि ( क. धा० ) / अपदिश्य = अप+दिश्+क्त्वा ( ल्यप् ) / तत्स्थां = तस्मिन् तिष्ठतीति, तत्स्था, ताम्, तद् + स्था+क ( उपपद०) + टाप् + अम् / वस्तुतः = वस्तुन इति, वस्तु + तसि / अस्तुत = स्तु + लङ् + त / इस पद्यमें निदर्शना अलङ्कार है / / 31 // . वाग्जन्मवैफल्यमसहाशल्यं गुणाऽषिके वस्तुनि मौनिता चेत् / खलत्वमल्पीयसि जल्पितेऽपि, तदस्तु वन्दिभ्रमभूमितव // 32 // अन्वयः-गुणाऽधिके वस्तुनि मौनिता चेत् असह्य शल्यं वाग्जन्मवैफल्यं ( स्यात् ), अल्पीयसि जल्पिते अपि खलत्वं ( स्यात् ) तत् वन्दिभ्रमभूमिता एव अस्तु // 32 // व्याख्या-अथ सर्वथाऽपि गुणाधिकस्य स्तुतिकरणे कारणमाह-वाग्जन्मेति / गुणाऽधिके = दयादाक्षिण्यादिगुणोत्कृष्टे, स्तुत्यहें इति शेषः / तादृशे वस्तुनि = पदार्थे विषये, मोनिता = तूष्णींभावः, चेत् = यदि, असह्यशल्यं = दुःसहशल्यप्रायं, वाग्जन्मवैफल्यं = वचनाविर्भावनष्फल्यं, स्यादिति शेषः / तर्हि स्तोकं . वक्तव्यमित्याशङ्कयाह-खलत्वमिति / अल्पीयसि = अल्पतरे, जल्पिते अपि % वचने अपि, खलत्वं = दौर्जन्यं, स्यात्, तत् = तस्मात्कारणात्, वन्दिभ्रमभूमिता एव = "अयं स्तुतिपाठकः" इति भ्रमस्य विषयत्वम् एव, अस्तु = भवतु // 32 // ___ अनुवादः- गुणोंसे उत्कृष्ट वस्तुमें वर्णन करनेमें मौन लिया जाय तो असह्य शल्यके समान वचनकी उत्पत्तिकी विफलता होती है और बहुत कम वर्णन करने में भी दुर्जनता होगी इसलिए यह "स्तुतिपाठक है" ऐसे भ्रमका विषय होनेपर भी ज्यादा वर्णन करना ही अच्छा है // 32 // टिप्पणी-गुणाऽधिके = गुणः अधिकं, तस्मिन् ( तृ० त० ) / मोनिता = मौनम् अस्याऽस्तीति मौनी, मौन + इनि+सु। मौनिनो भावः, मोनिन् + तल्+टाप् + सु। असह्यशल्यं = न सह्यम् ( नञ्०), असह्य च तत् शल्यम् (क० धा० ) / वाग्जन्मवैफल्यं = वाचो जन्म (10 त० ) / विगतं फलं' यस्मात्तत् ( बहु०)। विफलस्य भावः, विफल + ष्यन् + सु / वाग्जन्मनो