________________ नैषधीयचरितं महाकाव्यम् / व्याख्या-अग्राऽध्वजाग्रन्निभृताऽऽपदन्धुं = पुरोमार्गासन्नगुप्तविपत्कूपं, प्रतिबन्धुं = निषेद्धम्, अर्हः = योग्यः, शक्त इति भावः, बन्धुः - सुहृत. स्यात् यदि = भवेत् चेत्, सः = तादृशः, जनः = बन्धुजनः, कार्यवित् = कार्यज्ञः अपि प्रश्नपर्यन्तं, जोषम् अस्तु = तूष्णीम् आस्ताम्, न तु मां निवारयेदिति भावः / कुतस्तहि कार्यविज्ञानं ? तदाह-वस्त्विति / मुदः = हर्षस्य, श्रेयस इति भाव / पदवीं तु = मागं तु, निजेच्छा एव = स्वकाङ्क्षा एव, प्रच्छया-प्रष्टव्या, सैव मे प्रवर्तिका नाऽन्यः कश्चिदस्तीत्यर्थः / वस्तु %3D सत्यम्, अयमेव परमाऽर्थ इति भावः // 107 // अनुवादः - सामने राहमें निकट विपत्तिरूप कुएँको रोकनेमें समर्थ बन्धु हो तो कार्य जाननेवाला वह प्रश्न करनेतक चुप रहे / कल्याणके मार्गको तो अपनी इच्छासे पूछना चाहिए / यही ठीक है // 107 // ____ टिप्पणी-अग्राऽध्वजाग्रन्निभृताऽऽपदन्धुम् = अग्रश्चाऽसौ अध्वा ( क. धा० ), निभृता चाऽसौ आपत् ( के० धा० ), सा एव अन्धुः ( रूपक० ), "पंस्येवाऽन्धुः प्रहिः कूपः" इत्यमरः / जाग्रच्चाऽसौ निभृताऽऽपदन्धुः (क० धा० ) / अग्राऽध्वनि जाग्रन्निभृताऽऽपदन्धुः, तम् ( स० त०)। प्रतिबन्धुं % प्रति+बन्ध + तुमुन् / कार्यवित् = कार्य वेत्तीति, कार्य + विद्+क्विप् ( उपपद० )+सु। निजेच्छा = निजस्य इच्छा (ष० त०)। प्रच्छया - प्रष्टम् अर्हा, द्विकर्मक "प्रच्छ जीप्सायाम्" धातुसे अप्रधान कर्ममें "ऋलोर्ण्यत्" इस सूत्र से ण्यत् + टाप् / इस पद्यमें रूपक अलङ्कार है // 107 // इत्थं प्रतीपोक्तिमति सखीनां विलुप्य पाण्डित्यबलेन बाला। अपि श्रुतस्वर्पतिमन्त्रिसूक्ति दूती बभाषेऽदभुतलोलमौलिम् // 10 // अन्वयः-बाला इत्थं सखीनां प्रतीपोक्तिमति पाण्डित्यबलेन विलुप्य श्रुतस्वर्पतिमन्त्रिसूक्तिम् अपि अद्भुतलोलमौलिं दूतीं बभाष // 108 // व्याख्या-बालाभैमी, इत्थम् = अनेन प्रकारेण, सखीनां = वयस्यानां, प्रतीपोक्तिमति = प्रतिकूलवचनबुद्धि, पाण्डित्यबलेन = वैदुष्यशक्त्या, विलुप्य= परिहृत्य, श्रुतस्वर्पतिमन्त्रिसूक्तिम् अपि = आकर्णितेन्द्र सचिवबृहस्पितिशोभनभाषणाम् अपि, अद्भुतलोलमौलि = विस्मयकम्पमानशिरसं, दूतीम् = इन्द्रशम्भलीं बभाषे = भाषितवती // 108 // अनुवादः-दमयन्तीने इस प्रकारसे सखियोंकी प्रतिकूल भाषण करनेकी बुद्धिको अपने पाण्डित्यकी शक्तिसे निवारण करके इन्द्र के मन्त्री बृहस्पतिके उत्तम