________________ दशमः सर्गः टिप्पणी-योग्यानुपलम्भनम् = योग्यायाः अनुपलम्भनम् (10 तत्पुरुषः ) कोतस्कुतलोकबाधः = कुतः कुतः आगता इति कौतस्कुता (तत आगत ) इत्यण अव्ययानां भयाथे टिलोपः इति टिलोपः। ते च ते लोकाः तेषां वाधः / भुवि अनुपलब्धि प्रमाणात् स्वर्गे पाताले च अर्थापत्तिप्रमाणा त्रिभनेऽपि काचिदे तत्तुल्या नास्तीति सिद्धम् / यदि स्यादुपलभ्येत ततो नास्तीह भूतलेः दिवोऽधस्ताच्च नास्त्येव / यदि तत्रेदृशी भवेत् तदा दिवोधस्तादागतानामत्र सम्मर्दः न स्यात् / . भाव:-अतस्त्रिलोक्यां नो भैमीसदृशी काचिदङ्गना / अनुपलब्ध्यार्थापत्ती . प्रमाणे जागृतो यतः / / अनुवाद:-इस धरातल पर यदि भैमी सदृश कोई स्त्री होती तो अवश्य पायी जाती। नहीं पायी जाती है अतः यहाँ पर ऐसी कोई नहीं है। यदि स्वर्ग अथवा पाताल में होती तो उन-उन लोकों से वहाँ वहाँ के वासी इस स्वयंवर में नहीं आते, अतः उन दोनों लोकों में भी भैमी के सदृश कोई स्त्री नहीं है। भूमि पर सत्ता का वाधक अनुपलब्धि प्रमाण है स्वर्ग एवं पाताल में सत्ता का बाधक अर्थापत्ति प्रमाण है अतः इन दोनों प्रमाणों से तीनों लोक में ऐसी कोई स्त्री नहीं है यह सिद्ध हो गया // 125 // नमः करेभ्योऽस्तु विधेर्न वाऽस्तु स्पृष्टं धियाऽप्यस्य न किं पुनस्तैः। स्पर्शादिदं स्याल्लुलितं हि शिल्पं मनोभुवोऽनङ्गतयाऽनुरूपम् // 126 // अन्वय:-विधेः करेभ्य: नमः अस्तु अथवा न अस्तु अस्य धिया अपि न स्पृष्टम् किं पुनः तैः हि इदं शिल्पं स्पर्शात् लुलितं स्यात् अनङ्गतया मनोभुवः अनुरूपम् इदम् शिल्पम् / व्याख्या-विधेः = ब्रह्मणः, करेभ्य: हस्तेभ्यः, नमः= नमस्कारः, अस्तु = भवतु, अथवा न अस्तु / अस्य = ब्रह्मणः, धिया = बुद्धया, अपि = च, न = नहि स्पष्टम् =कृतस्पर्शम् किं पुनः तैः = हस्तैः हि = यतः इदम् = पुरोदृश्यमानम् शिल्पम् स्पर्शात् = करासङ्गाः लुलितम् =मृदितम् स्यात् = भवेत्, अनङ्गतया= अशरीरतया मनोभुवः = कामस्य अनुरूपम् = योग्यम् इदम् शिल्पम्, अस्तीति शेषः। . ___टिप्पणी-करेभ्यो नमः "नमः स्वस्ति स्वाहे'त्पादिना चतुर्थी स्पष्टम् = स्पृशो कर्मणि क्तः वश्चेति षत्वं ष्टुत्वम्, अनुरूपम् = रूपस्य योग्यम् अनुरूपम् यथाऽर्थेऽव्ययी भावः /