________________ 6. नषधीयचरितं महाकाव्यम् विधाय- पूर्वमीमांसोत्तरमीमांसारूपेण द्विप्रकारकं कृत्वा स्थितया, मीमांसयाकृतम् - विहितम् / टिप्पणी-पराच्छादनचारु =परेण आच्छादनेन चारु ( कर्मधारयपूर्वका तृ० तत्पु०) अरुयुग्मम् = ऊर्वोर्युग्मम् (10 तत्पु०) मांसमस्यास्तीति मांसलम् (शिध्मादित्वात् लच् ) ब्रह्मार्यकर्थिकभेदात् ब्रह्म अर्थो यस्य स ब्रह्मार्थः कर्म अर्थो यस्य सः कर्मार्थः 'शेषाद्विभाषा' इति कपि, ताभ्यां यो भेदः तस्मात् / भावः-सुन्दरवसनाच्छादितमूर्वोयुगलं गिरां देव्याः / .. ब्रह्मार्थकर्मार्थद्वयोत्तरपूर्वमीमांसदैवविरचितम् // . अनुबादः-सुन्दर वस्त्र से आच्छादित मांसल एवं सुन्दर उरुयुगल, परमत को खण्डन करने वाली कर्थिक (कर्मकाण्ड ) ब्रह्मार्थक (ब्रह्मकाण्ड ) से दो भागों में विभक्त मीमांसा से बनाये गये थे। 81 // . उद्देशपर्वण्यपि लक्षणेऽपि द्विधोदितैः षोडशभिः पदार्थः। आन्वीक्षिकी यद्दशनद्विमाली तां मुक्तिकामाकलितां प्रतीमः / / 82 // अन्वया-यद्दशनद्विमाली तां आकलितां मुक्तिकाम् उद्देशपर्वणि अपि लक्षणे अपि विधा उदितः षोडशभिः पदार्थः मुक्तिकामाकलितां आन्विक्षिकीम् प्रतीमः। व्याल्या-यद्दशनदिमाली =यदीयदन्तपक्तिद्वयम्, ताम प्रसिद्धाम आकलिताम् = प्रपिताम्, मुक्तिकाम् = मुक्तावलीम्, उद्देशपर्वणि = नामकीर्तनाबसरे, लक्षणे = समानासमानजातिव्यवच्छेदरूपलक्षणनिरूपणावसरे अपि विधाद्विप्रकारेण; उदित:-कथितः, षोडशभिः षोडशसङ्ख्याकैः पदार्थः, मुक्तिकामाकलिताम् - मुमुक्षभिरभ्यस्ताम् आन्वीक्षिकीम-तर्कविद्याम, प्रतीमः:जानीमः / ___ टिप्पणी- यद्दशनढिमाली= द्वयोर्मालयोः समाहारः द्विमाली 'आवन्तो वा इति स्त्रीने दिगोरिति कीप, यस्या दशना यद्दशनास्तेषां द्विमाली 'तद्धितार्थोत्तरे त्यादिना विगुसमासे कृते षष्ठीतत्पुरुषः / मुक्ता एव मुक्तिका स्वार्थे के कृते 'केश्णः' इति ह्रस्वे 'अभाषितपुंसकाच्च' इति कात्पूर्वस्येत्वम् / उद्देशपर्वणिउद्देशो-नामतः कीर्तनम् तस्य पर्वणि-अवसरे, अन्यत्र उद्देशपर्वदिवसे / सामुद्रिकलक्षणे च द्विधा उदितः षोडशभिः परार्थः मुक्तिकामाकलिताम् = मुक्ति कामयन्ते इति मुक्तिकामा 'शीलिकामि'त्यादिना णप्रत्ययः तः आकलिताम् / आन्विक्षिकीम् अनुपश्चात् वेदाध्ययनानन्तरम् ईक्षा सा प्रयोजनमस्या इत्यान्वीक्षिकी ठक प्रत्ययस्तस्येकादेशः।