________________ 58 नेषषीयचरितं महाकाव्यम् टिप्पणी-गुणदीर्घभावकृताम् = गुणस्य दीर्घभावेन कृताम् (प० तृ० तत्पु० ), अन्यत्र-गुणश्च दीर्घश्च भावश्च कृच्च ते गुणदीर्घभावकृतः तेषाम् (द्वन्द्वः ) शब्दपरम्पराणाम् = शब्दानां परम्परा तासाम् (10 तत्पु०) विधायिका=वि+धा+ण्वुल / व्यरचि-विपूर्वात् रचेः कर्मणि लुङ् / 'भावः--नूनं दधानागुणदीघंभावकृतां मनोज्ञां वितति यदीया / व्यधायि शब्दस्य परम्पराणां विधायिका व्याकरणेन काञ्ची॥ अनुवादः-पट्टसूत्र की दीर्घता से विस्तार को प्राप्त पक्ष में गुणदीर्घ भाव प्रत्यय और कृत्प्रत्ययों से विस्तार को प्राप्त एवं शब्दों की परम्परा-मधुर ध्वनि-समूह, पक्ष में सुबन्त तिङन्त आदि शब्दसमूह को करने वाली, ( बाला) व्याकरण से उसकी काञ्ची करधनी बनाया गई है ऐसा निश्चय है / / 78 // स्थितेव कण्ठे परिणम्य हार-लता बभूवोदिततारवृत्ता। ज्योतिर्मयी यद्भजनाय विद्या मध्येऽङ्गमङ्केन भृता विशंके / / 79 / / 'अन्वयः-कण्ठे परिणम्य स्थिता उदिततारवृता मध्येऽङ्ग अङ्केन भृता ... ज्योतिर्मयी विद्याः यद्भजनाय हारलता बभूव विशङ्के। व्याख्या--कण्ठे=वाचि, अन्यत्र-ग्रीवायाम्, परिणम्य = रूपान्तरम् प्राप्य, स्थिता=वर्तमाना, उदिततारवृत्ता = अश्विन्यादिप्रतिपादकपद्ययुक्ता, अन्यत्रप्रकाशितशुद्धमौक्तिकवर्तुला, मध्येऽङ्गम् = कल्पादिवेदाङ्गमध्ये, अन्यत्र--कराद्यवयवमध्ये, अङ्केन = एकद्वयादिसङ्ख्यया अन्यत्र-क्रोडेन भृता = धृता, ज्योति. मयी = नक्षत्रप्रधाना भास्वती विद्या एव ज्योतिविद्या एव यद्भजनाय = यस्याः सेवनाय, हारलता=मुक्तावली, बभूव= आसीत्, इति विशङ्के = उत्प्रेक्षे। टिप्पणी--परिणम्य = परि + नम् + क्त्वा-ल्यप् / उदिततारवृत्ता- उदिता तारा येषु तानि वृत्तानि यस्यां सा उदिततारवृत्ता। (ब० वी० गर्भ ब० व्रीहिः ) मध्येऽङ्गम् =अङ्गस्य मध्ये मध्येऽङ्गम् "पारे मध्ये" इत्यादिनाऽव्ययीभावः ) अन्यत्र अङ्गानां मध्ये / यद्भजनाय = यस्या भजनाय / “अङ्क कोडे. ऽन्तिके चिह्न" इति वैजयन्ती, "ज्योतिरग्नी दिवाकरे, पुमान् नपुंसके दृष्टौ स्यानक्षत्रप्रकाशयोः" इति मेदिनी। भाव:-अङ्कगणितबहुतारकवाचकवृत्तः समन्विता यस्याः / मध्येऽङ्गं परिकलिता ज्योतिविद्यैव हारतां याता॥ निर्मलनिस्तलमुक्ता. ज्योतिर्मयधिण्ठमङ्गगता। अङ्गे स्वाङ्के न्यस्ता हारलतव सेवितुं याता //