________________ 38 नवीयचरितं. महाकाव्यम् ज्याल्या-अनाङ्कितवाक्छलेन = अज्ञातदेववाक्कपटेन, नलेन = नैषधेन, तेषाम् = देवानाम्, सा=पूर्वोक्ता, वाक् = वाणी, अवज्ञायितमाम् = अत्यन्तमवहेलिता, स्त्रीरत्नलाभोचितयत्नलग्नम् = नारीललामलिप्सासमुचितदेवादिध्यानमग्नम्, किञ्चित् =किमपि / न प्रतिभातिस्म =न ज्ञायतेस्म / अतोऽन्यचित्ततया देवानां व्याजोक्तिस्तेन नाकलितेति भावः / टिप्पणी-अनाङ्कितवाक्छलेन =न आङ्कितः अनाशङ्कितः ( नम् तत्पु० ) अनाशङ्कितः वाचां छल: (10 तत्पु० ) येन सः (बहुव्रीहिः ) / तेन तथोक्तेन / अवज्ञायितमाम् = अवपूर्वात् ज्ञाधातोः कर्मणि लुङ् अवज्ञायि ततः 'तिङश्चेति तमप्प्रत्ययः तस्य 'तरप्तमपी घः' घसंज्ञा, ततः किमेत्तिङव्ययघादित्यादिना आम् प्रत्ययः / स्त्रीरत्नलाभोचितयत्नलग्नम् = स्त्रीरत्नलाभे उचितो यः यत्नः तत्र लग्नम् ( स० तत्पु०)। प्रतिभातिस्म- 'लटः स्म' इति भूताय लट् / भावः-स्त्रीरत्नलाभाभिनिविष्टचेताः निजेष्टदेवाहितशान्तभावः / नलो न तेषां छलवानिगूढ व्याजोक्तभावं कलयाञ्चकार / अनुवादः-देवताओं की वाणी के छल के प्रति आशा न होने के कारण नल ने उसकी अत्यन्त अवहेलना कर दी, उधर ध्यान ही नहीं दिया, समयानुकूल उसका सीधा ही अर्थ लगाया क्योंकि उनका मन स्त्रीरत्न उस दमयन्ती के लाभायं अपने इष्टदेव के ध्यान में लगा था उसको अन्य कुछ नहीं ज्ञात हो रहा बा // 49 // यः स्पर्द्धया येन निजप्रतिष्ठां लिप्सुः स एवाह तदुन्नतत्वम् / कः स्पद्धितुः स्वाभिहितस्वहानेः स्थानेऽवहेलां बहुलां न कुर्यात् ? // 50 // अन्वयः-य: येन स्पर्धया प्रतिष्ठां लिप्सुः सः तस्य उन्नतत्वम् आह, कः स्वाभिहितस्वहानेः स्पधितुः स्थाने अवहेलनां न कुर्यात् / व्याख्या-यः कोऽपि न्यूनगुणः, येन अधिकगुणेन, स्पर्धया संघर्षण, प्रतिष्ठाम् - उन्नतिम्, लिप्सुः = लन्धुमिच्छुः, स्पृहयालुः, स:- स्पर्धयिता तस्य स्पर्धाविषयस्य, उन्नतत्वम् = उत्कृष्टत्वम् आह-कषयति, कः = उक्ताल्मगुणः, स्वाभिहितस्वहाने:- स्वप्रकटितनिजापकृष्टत्वस्य, स्पधितुः स्थाने = उचितामेव अवहेलाम् = अवज्ञाम्, न कुर्यात् =न विदधीत / टिप्पणी-स्पर्धया स्पृहिग्रहीत्यादिना अप्रत्ययः / लिप्सुः = लम् धातोः' समन्तात् सनाशंसभिक्ष उ:' इत्युप्रत्ययः / .