________________ नेषधीयचरितं महाकाव्यम् व्यास्या-विषाधिनायः= देवाधिदेवः इन्द्रः, यम् = नलम्, वीक्ष्य = अवलोक्य, भूषाभिः = अलङ्कारः, संस्कृते =भूषिते, अपि = च, प्रसूनबाणे = कामे, प्राकृतबुद्धिम् = साधारणजनधियम्, एव अकृत = कृतवान् अथ % सर्वागमानन्तरम्, तेन-प्रसिद्धन, न्यक्कृतकामश्रिया नलेन = नैषधेन, सा सभा=समागत टिप्पणी-विवुधाधिनाथः = विवुधानामधिनाथः (10 तत्पु०)। वीक्ष्यवि+ईश+क्त्वा तस्य ल्यप् / प्राकृतबुद्धिम् = प्राकृतस्य बुद्धिम् (ष० तत्पु)। अशोभि-कर्मणि लुङ्। भावः-भूषितमपि रतिनाथम् यं दृष्ट्वाकृत समां बुद्धिम्। देवपतिनिषधेशः सोऽयं प्रायात् सभामध्यम् // अनुवादः-देवराज इन्द्र जिसको देखकर भूषणों से सुसज्जित कामदेव में भी साधारण जन की धारणा किये, उस नल ने सबके बाद आकर उस राजसभा को अलंकृत किया // 38 // घृताङ्गरागे कलिताशोभा तस्मिन् सभा चुम्बति राजचन्द्रे / गता बंताक्ष्णोविषयं विलय क्व क्षत्रनक्षत्रकुलस्य लक्ष्मीः॥ 39 // अन्वयः-घृताङ्गरागे तस्मिन् राजचन्द्रे कलिताशोमा सभा चुम्बति क्षत्रनक्षत्रकुलस्य लक्ष्मीः अक्ष्णोः विषयं विलय क्व गता वत / व्याख्या-घृताङ्गरागे-धृतानुलेपनरूपचन्द्रबिम्बरागे, राजचन्द्रे-नृपशशिनिकलितधुशोभाम् = विधृताकाशश्रियम, सभाम् = स्वयंवरसभाम्, चुम्बति == प्राप्ते सति, क्षत्रनक्षत्रकुलस्य = राजन्यतारामण्डलस्य, लक्ष्मीः = शोभा, अक्ष्णो: - नयनयोः, विषयम् = आस्पदम्, विलय =विहाय, क्व - कुत्र, गताप्रयाता, वत-आश्चर्य वतशब्दोऽत्र / तस्मिन् नलोदये चन्द्रोदये नक्षत्रकुलमिव क्षत्रकुलं निष्प्रभ जातमित्यर्थः / अत्र निदर्शनारूपकयोरङ्गाङ्गीभावरूपः सङ्करः। टिप्पणी-धृताङ्गरागे-घृतः अागो येन सः (बहु० वी०)। राजचन्द्रे = राजा एव चन्द्रः तस्मिन् ( मयूरव्यंसकादि समासः) / कलिताशोभाम् - दिवः शोभा युशोभा, कलिता बुशोभा यया सा ताम् / (10 तत्पु० गर्भो बहुबीहिः)। क्षत्रनक्षत्रकुलस्य-क्षत्राणि एव नक्षत्रणि तेषां कुलं तस्य तथाभूतस्य / (मयूरव्यंसकादि समाज, ष. तत्पु० च)। .