________________ बशमः सर्गः दाक्षिण्यदयादमानाम् = त्याग-परचित्तानुवर्तन-कृतेन्द्रियदमनानाम् चतुष्टयीचतुष्कम्, रक्षणसोविदल्ला= तत्कातिदाररक्षणकञ्चुकिनः / सन्तीति शेषः / टिप्पणी-चतुःसमुद्रीपरिखे = चतुर्णा समुद्राणां समाहारः चतुःसमुद्री (तदितार्थेत्यादिना द्विगुसमासः द्विगोश्चेति डीप् / सै व परिखा यस्य तस्मिन् तथोक्ते, (ब० वी० ) वासितकीतिदारे-वासिता कीतिरेव दारा यस्मिन् तस्मिन् तथोक्ते, (बहुव्रीहिः) औदार्यदाक्षिण्यदयादमानाम् = औदार्यञ्च दाक्षिण्यञ्च दया च दमश्चेति औदार्यदाक्षिण्यदयादमास्तेषां चतुष्टयी, चत्वारोऽवयवा यस्या सेति चतुष्टयी चतुःशब्दात तयप् तस्यायजादेशस्तत्ता 'टिड्ढेत्यादिना डीप ष्टुत्वम्-चतुष्टयी। रक्षणसोविदल्ला = रक्षणे सोविदल्ला रक्षणसोविदल्ला 'सोविदल्लाः कञ्चुकिनः' इत्यमरः / सावयवरूपकालङ्कारः / भाव:- . राजकानां चतुःसागरैर्वेष्टिते कातिदाराधिवासेऽत्र भूमण्डले / दानदाक्षिण्यकारुण्यदान्तिक्रियाः सोविदल्ला मताः कीतिसंरक्षकाः / अनुवादः-चारों दिशाओं में चार सागर रूप खायों से घिरे हुए राजाओं की कीर्तिरूपिणी दारा का निवासभूत इस भूमण्डल में उदारता, दाक्षिण्य (परचित्तानुकूलाचरण ) दया एवं इन्द्रिय दमन-ये चार कीतिदाराओं के रक्षक चार कञ्चुकी हैं / यहाँ सावयव रूपक अलङ्कार है // 28 // अभ्यागतैः कुण्डिनवासवस्य परोक्षवृत्तेष्वपि तेषु तेषु / जिज्ञासितस्वेप्सितलाभलिङ्ग स्वल्लोऽपि नावापि नृपैविशेषः / / 29 / / अन्धा-अभ्यागतैः नृपः कुण्डिनवासवस्य परोक्षवृत्तेषु अपि तेषु तेषु उपचारेषु विजिज्ञासितस्वेप्सितेलाभलिङ्गम् स्वल्पः अपि विशेषः न अवापि / व्यास्या-अभ्यागतः - समागतः, नृपः = राजभिः, कुण्डिनवासवस्य - कुण्डिननरेन्द्रस्य, परोक्षवृत्तेषु- मूढनिष्पन्नेषु, तेषु तेषु-तत्तद्विषेषु / उपचारेषु = सत्कारेषु, विजिज्ञासितलाभलिङ्गम् - शीप्सितदमयन्तीलाभचिह्नम् / स्वल्पः = स्तोकः, अपि, विशेषः न अवापि = नाधिगतः / टिप्पणी-कुण्डिनवासवस्य = कुण्डिनस्य बासवः कुण्डिनवासवः तस्य कुण्डिनवासवस्य (10 तत्पु० ) / परोक्षवृत्तेषु- अक्षणः परं परोक्षम् 'प्रतिपदि समनुभ्योदणः, इति समासान्तः, अत एव शापकाच्चाव्ययीभावः। परोक्षं वृत्ताः परोक्षवृत्ताः ( सुपसुपेति समासः ) तेषु परोक्षवृत्तेषु / जिज्ञासितस्वेप्सित