________________ उणादिपकरणम् ] सिद्धहैमबृहत्प्रक्रिया. 781 प्रत्ययः स्यात् / कुट्टण कुत्सने च। कुट्टिमः संस्कृतभूतलम् / वेष्टि वेष्टने / वेष्टिमं पुष्पबन्धविशेषः भक्ष्यविशेषश्च / पूरोचि आप्यायने / पूरिमं मालाबन्धविशेषः भक्ष्यविशेषश्च / पिपलंप संचूर्णने / पेषिमं भक्ष्यविशेषः / षिचीत क्षरणे / सेचिमं मालाविशेषः / गणण संख्याने। गणिमं गणितम् / ऋक् गतौ, णौ, पौ अर्पिमं बालवत्साया दुग्धम् / दृग्ट वरणे / वरिमं तुलोन्मेयम् / मह पूजायाम् / महिमं पूजनीयम् / वयिमखचिमादयः // 350 // वयिमादयः शब्दा इमप्रत्ययान्ता निपात्यन्ते। वेंग तन्तुसंताने वयादेशश्च / वयिमं माल्यं कन्दुकः तन्तुवायदण्डश्च / खनूग अवदारणे चश्च / खचिमं मणिलोहविद्धं घृतविहीनं च दधि / आदिशब्दादन्येऽपि / ___उठिकुल्यलिकुथिकुरिकुटिकुडिकुसिभ्यः कुमः // 351 / / उत्पूर्वाद्वटेः कुल्यादिभ्यश्च किदुमः प्रत्ययः स्यात् / वट वेष्टने / उद्बटुमः परिक्षेपः। कुल बन्धुसंस्त्यानयोः / कुलुमः उत्सवः / अली भूषणादौ / अलुमः प्रसाधनं नापितः अग्निश्च / कुथच् पूतीभावे / कुथुमः ऋषिः / कुथुमं मृगाजिनम् / कुरत् शब्दे / कुरुमः कारु: भाजनं च / कुटत् कौटिल्ये। कुटुमः प्रेष्यः / कुडत् बाल्ये च / कुडुमा भूमिः / कुसच् श्लेषे / कुसुमं पुष्पम् / कुन्दुमालन्दुमकुङ्कुमावद्रुमपटुमादयः // 352 / / एते कुमप्रत्ययान्ता निपात्यन्ते / कुकि आदाने। स्वरानो दश्च। कुन्दुमः निचयः गन्धद्रव्यं च / लीञ्च लेषणे लिन्दभावश्च / लिन्दुमो गन्धद्रव्यम् / कुके; स्वरान्नोऽन्तश्च / कुङ्कुमं घुमृणम् / विलंती लाभे रोऽन्तश्च / विद्रुमः प्रवालः / पटेष्टोऽन्तश्च / पटुमं नगरम् / आदिग्रहणादन्येऽपि / कुथिगुधेरूमः // 353 // आभ्यामूमः प्रत्ययः स्यात् / कुथच् पूतीभावे / कोथूमः चरणकृषिः / गुधच् परिवेष्टने / गोधूमः धान्यविशेषः / विहाविशापचिभिद्यादेः केलिमः // 354 // विपूर्वाभ्याम् ओहांक त्यागे शोंच तक्षणे इत्येताभ्यां पच्यादिभ्यश्च किदेलिमः प्रत्ययः स्यात् / विहीयते त्यज्यतेऽशुचि शरीरमस्मिन्निति विहेलिमः स्वर्गः / विश्यति तनूभवति मासि मासि कलाभिहींयमान इति विशेलिमः चन्द्रः स्वर्गश्च / डुपचींए पाके / पचति असावनमिति पचेलिमोऽग्निः आदित्यः अश्वश्च। भिट्टपी विदारणे। भिदेलिमः तस्करः। आदिशब्दात् दृशृं प्रेक्षणे-दृशेलिमम् / अदंप्सांक् भक्षणे / अदेलिमम् / हनंक्