________________ // परिशिष्टानि // // प्रक्रियायां तत्तत्स्थले प्रमादान्न निर्दिष्टानि सूत्राणि // पूर्वार्द्ध२१२-२ पुंस्त्रियोः स्यमौजस् // 1 / 1 / 29 // औरिति प्रथमाद्वितीयाद्विवचनयोरविशेषेण ग्रहणम्। सि अम् और जस् इत्येते प्रत्ययाः पुंलिङ्गे स्त्रीलिङ्गे च घुट्संज्ञाः स्युः। पृष्ठम्-४०-पंक्ति 13 / _ 271-2 शिघुट् // 1 / 1 / 28 // जस्शसादेशः शिघुट्संज्ञः स्यात् / पृष्ठम्-५३-पंक्ति 19 / 272-2 घुटि // 1468 // अधिकारोऽयम् / निमित्तविशेषोपादानमन्तरेणापादपरिसमाप्तेर्यत्कार्य वक्ष्यते तद् घुटि वेदितव्यम् / पृष्ठम्-५३-पंक्ति 21 / 321-2 सविशेषणमाख्यातं वाक्यम् // 1 / 1 / 26 // त्याद्यन्तं पदमाख्यातम् / साक्षात् पारंपर्येण वा यान्याख्यातविशेषणानि तैः प्रयुज्यमानैर्वा सहितं प्रयुज्यमानमप्रयुज्यमानं वाख्यातं वाक्यसंझं स्यात् / लोकादेव वाक्यसिद्धौ साकाङ्क्षत्वेऽप्याख्यातभेदे वाक्यमेदार्थ वचनम् / आख्यातमित्यत्रैकत्वस्य विवक्षितखात् ओदनं पच तव भविष्यति मम भविष्यतीत्यादौ श्रूयमाणे गम्यमाने वाख्यातान्तरे मिन्नवाक्यवाद वस्नसादयो न भवन्ति / लौकिके हि वाक्येऽङ्गीक्रियमाणे आख्यातभेदेऽप्येकवाक्यवाद् वस्नसादयः प्रसज्येरन् / कुरु कुरु नः कटमित्यादौ तु कृते द्विवचनेऽर्थाभेदादेकमेवाख्यातमित्येकवाक्यवाद् वस्नसादयो भवन्ति यथा पृष्ठम्-६५-पंक्ति 14 / 409-2 दाम्नः / / 2 / 4 / 10 // संख्यादेमन्शब्दान्ताद् नान्नो बहुव्रीहेः स्त्रियां डोः स्यात् / द्विदाम्नी / त्रिदानी / संख्यादेरित्येव / उद्दामानम् उद्दामाम् उद्दाम्नी वडवां पश्य। 'अनो वेति विकल्पस्यापवादो योगः। पृष्ठम्-८९-पंक्ति-१५ / .535-2 प्रसितोत्सुकावबद्धैः // 2 / 2 / 49 // एतैर्युक्तादाधारे वर्तमानाद् गौणानाम्नस्तृतीया वा स्यात् / केशैः केशेषु वा प्रसितः। प्रकर्षेण सितो बद्धः प्रसितः। नित्यप्रसक्त इत्यर्थः / गृहेण गृहे वा उत्सुकः / केशैः केशेषु वा अवबद्धः। आधार