________________ प्रणाल्या प्रथितस्यास्य महाव्याकरणस्य सुतर सोनल्यन ज्ञान समयप्रभावान्मन्दातिमन्दमतीनां माइग्जनविशेषाणां न संभवतीति माइगर्थमेयास्य व्याकरणशेखरस्य केवलं प्रक्रियास्वरूपापादनमेव मया समपादि विशष्य श्री विजयनीतिसूरीश्वरचरणानां परमनिःस्वार्थतयैव परोपकारकरणैकनिष्ठवृत्तीनां सर्वदा सन्मुनिसत्परिवारालंकृतानां पुरस्तात् / . यद्यपि हैमव्याकरणस्यैव प्रक्रियास्वरूपेणोपनिबद्धा अनेके ग्रन्था उपलभ्यन्ते तथापि तेषां संक्षेपवृत्तिरूपत्वेन सारल्यस्थले प्रत्युत क्लैटयमेवानुभूयतेऽभ्यासकैरिति तदूरीकरणार्थमेवायमायासः। श्रीहैमव्याकरणस्यैव बृहवृत्तियुतस्य प्रक्रियास्वरूपेण ग्रथितत्वादस्य महाग्रन्थस्य 'हैमबृहत्प्रक्रिया' इत्येव नामाभिधानमावहति योग्यतामितः प्राक्कालीनस्य ' हैमलघुप्रक्रिया' इत्याख्यग्रन्थस्य विद्यमानत्वाच्च / एवं प्रक्रियारूपतामापन्नेऽस्मिन् महाव्याकरणे मूलस्थोदाहरणप्रत्युदाहरणानि संक्षेपत एवोद्धृतानि समवलोक्यन्ते, समग्रोदाहरणप्रत्युदाहरणोद्धरणस्यात्र प्रक्रियायामसुकरत्वादनावश्यकत्वाद्वा ग्रन्थस्य चातिविस्तृततयाऽध्येतृणामनादरणीयत्वसंभवाच्च / मूलग्रन्थस्थान्यसर्वविभागस्य तु प्रायोक्षरश एवात्र प्रक्रियासंकलनायां समावेशो दरीदृश्यत इति विलोकयन्तु सहृदया विचक्षणाः। पुनश्च सविनयमभ्यर्थये सतः साञ्जलिरहमेतत्प्रक्रियाकर्ता मुहुर्यत्-पांडित्यप्रकटनविरोधित्वेन पांडित्याभाववत्त्वेन वा ममायं यत्नः केवलं मादृशामल्पमेधस्काभ्यासिनामेव किंचिदुपयोगितामापत्स्यमानः किंचिदपि फलेग्रहिः संपत्स्यत इत्या. शयैव चेक्रियमाण इह तत्रभवतां भवतां दृग्गोचरीभवतीति / किं च सद्विस्तु केवलममृतदेश्यकृपावलोकनमेवैतदग्रन्थोपरि संविधेयमथ च यद्दर्शनपथमायायादत्र कुत्रचित्संकलनासंशोध्यं तन्निवेदनीयमित्याशास्तेऽयं जनः। दुर्जनानां तु विद्ययालंकृतत्वेऽपि परिहरणीयत्वमेवाहुःप्राञ्च इत्यस्माभिरपि तत्परिहार एव कर्तुं युज्यते मणिनाऽपि भूषितस्य सर्पस्य भयंकरत्वदर्शनेन तत्परिहारकरणौचितीवत्। वस्तुतस्तु " सर्वथा व्यवहर्तव्यं कुतो ह्यवचनीयता। ____ यथा स्त्रीणां तथा वाचां साधुत्वे दुर्जनो जनः”॥इति न्यायेन यस्य कस्यापि विषयस्य सर्वथा वचनीयत्वाभाववत्त्वेऽपि व्यवहारनिरोधस्य दुष्करत्वमेवेत्यालोचयंतु सुधियो विपश्चितः / . हैमबृहत्प्रक्रियाभिधानेऽस्मिन् ग्रन्थे ये ये विषयाः समुद्द्योतन्ते तन्निरीक्षणार्थ विषयानुक्रमणिका पुरस्तादेव प्रदर्श्यते ग्रन्थान्ते च ‘वैयाकरणन्यायादर्श' इत्याख्यकग्रन्थान्तरमपि परिभाषाबोधकं समुद्धृतं प्रकटीक्रियते, सा चेक्स्वरूपेयं 'श्रीहैमबृहत्प्रक्रिया' प्राकट्यदशां प्रपन्ना दृष्टिपथमायाति यजनतायास्तत्र श्रीविजयनीतिसूरीश्वराणांसदुपदेशविलसितत्वमेव परमनिदानीभूतं परमोपकारिधौरेयतामाबिभर्तीत्यलमतिविस्तरेणेति निवेदयते प्रक्रियासंकलयिता मयाशंकरजनुगिरिजाशंकरः शास्त्री.